________________
प्रमाणप्रकरणम्
३४९
स्विनो वयमिति यत्किंचिदेतत् ,
यत्पुनरभ्यधायि क्रमव्यत्यासप्रयुक्ता अपि वर्णाः प्रत्यायका भवेयुः क्रम एव वा स्फोटः स्यादिति तदपि न पेशलम, क्रमो हि नाम स कालभेदो न च काल एव स्फोटो भवितुमर्हति, क्रमो ऽपि च न स्वतन्त्रः प्रतिपादकः पदाथों न्तरवृत्तिर्वा किं तु वर्णाश्रित एव, तत्र चोक्तम्
द्वये सत्यपि तेनात्र विज्ञेयो ऽर्थस्य वाचकः । वर्णाः किं नु क्रमोपेताः किं नु वर्णाश्रयः क्रमः ।। क्रमः क्रमवतामङ्गमिति किं युक्तिसाध्यता ।।
धर्ममात्रमसौ तेषां न वस्त्वन्तरमिष्यते(१) ॥ इति ।। त्तस्माद्ये यावत्क्रमका यमथे प्रत्याययन्ता दृष्टा वर्णास्ते तत्क्रमका वर्णास्तमर्थ प्रत्याययिष्यन्तीति न स्फोटादर्थावगतिरिति, तदेवं न कार्यानुमानमर्थाप. त्तिर्वा स्फोटसिद्धये प्रभवतीति सिद्धम् ,
स्फोटे प्रत्यक्षगम्यताया निराकरणम्यदप्यमाणि शब्दादर्थ प्रतिपद्यामहे इति व्यवहारः स्फोटपक्षसाक्षितामेवावलम्बते इति, तदप्यसारं वर्णानां वाचकत्वे यथोक्तनीत्या साधिते तत्पक्षे ऽपि तथा व्यवहारोपपत्तेः,
ननु कथमुपपत्ति: संस्कारस्तावन्न शब्दशब्देनोच्यते न हि तथा लोके प्रसिद्धिः संस्कारे च वाचके व्युत्पत्तिरपि दुरुपपादा परावगतिपूर्विका हि शब्दात्स्वावगतिर्न च परस्थः संस्करः परस्य प्रतीतिमुपजनयन् ग्रहीतुं शक्यः परोक्षवाढणेष्वपि शब्दशब्दो वर्तमानः प्रतिवर्ण वा वर्तेत वर्णसमुदाये वा प्रतिवर्ण वर्तमाने च शब्दे न शब्दादर्थप्रतिपत्ति: स्यात् , एकस्य वर्णस्य वाचकत्वायोगात् समुदाये तु न वर्तितुमर्हति शब्दशब्दो जातिशब्दत्वात् , द्विवचनबहुचनान्तव्यक्तिशब्दप्रयोगे हि तत्सामानाधिकरण्येन न जातिशब्द एकवचनान्तः प्रयुज्यते न हि भवति देवदत्तयज्ञदत्तौ पुरुष इति धवखदिर. पलाशा वृक्ष इति तथा गकारोकारविसर्जनीयाः शब्द इत्यपि,
ननु वनशब्दवत्तहि समुदायवाची भविष्यति शब्दशब्दो वनं वृक्षा न जातिशब्दवदिति चेन्न, तत्र समुदायव्यतिरेकनिर्देशदर्शनादाम्राणां वनं कपित्थानां वनमिति न चैवमिह व्यतिरेकनिर्देशो ऽस्ति गकारादीनां शब्द इति अदर्शनात् ,
(१) श्लोकवार्तिके शब्दनित्यताधिकरणे २८५-२६६ । क्रमोपेता वर्णा वर्णक्र. मो वा वाचक इति द्वये सत्यपि क्रमोपेता वर्णा एव वाचकः न तु वर्णक्रमः स हि वर्णाना धर्ममानं न वस्त्वन्तरं तस्मात्प्रतीयमाना क्रमोपेता वर्षा एव वाचक इति भावः ।