________________
३४८
न्यायमंञ्जयम्
स्वमाद्येनैव वर्णेन व्यक्तं किमिदानीमन्ये वर्णाः करिष्यन्ति एकदेशव्यक्तिस्तु निरवयवस्य वर्णस्येव न सम्भवति, यथोक्तम्
Com
अल्पीयसापि यत्नेन शब्दमुच्चारितं मतिः ।
यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटमिति (१) ॥
द्वितीय दृष्टान्त उदाहारि यथा ऽनुवाकः श्लाको वा प्रथमसंस्थया गृहीतोऽपि संस्थानान्तराभ्यासः स्फुटतर परिच्छिन्नो भवति तथा स्फोटो ऽपि प्रथमवर्णव्यक्तौ वर्णान्तरैरतिशयिताभिव्यक्तिर्भविष्यतीति, सो ऽपि न सदृशेो दृष्टान्तः श्लेाकानुवाकयोरनंशत्वानुपपत्तेः के चिदवयवा वर्णात्मानः पदात्माना वा प्रथमायां बुद्धावपरिस्फुरन्तः संस्थाभ्यासलब्धातिशयायां तस्यां प्रकटीभवन्ति, स्फोटस्त्वेकवर्ण इव निरंश इति तत्र को बुद्धेरतिशययेोगः तस्मादयमपि न सङ्गतेो दृष्टान्तः,
स्फोटे ध्वनिव्यङ्ग्यताया निराकरणम् -
,
ये ऽपि च मन्वते ध्वनिव्यङ्ग्यत्वात् स्फोटस्य न तत्र वर्णविकल्पावसर इति ते ऽपि न सम्यग्दर्शिनः पराणुभ्यः वर्णप्रतीतिध्वनिभ्यः शब्दप्रतीतेर नुत्पादात्, अतिद्रुतेोच्चि चारयिषया ऽनुपलभ्यमानवर्णविभागाच्च शब्दादर्थप्रत्ययाभावात्,
अथ ध्वनयः शब्दव्यक्तिमादधानाः स्थानकरणानुरोधेनासत्यमेव वर्णभेदमुपदर्शयन्ति श्यामादिरूपमिव मुखस्य खड्गादय इत्युच्यते तदप्यसत्, असत्यत्वे निमित्ताभावात्प्रतीयन्ते हि निर्बाधया बुद्ध्या वर्णास्तदतिरिक्तस्तु शब्दो न प्रतीयते यश्च न प्रतीयते सो ऽस्ति ये च प्रतीयन्ते ते न सन्तीत्युच्यमाने शशो नास्ति विषाणमस्तीति स्यात्तस्मादयमपि न कल्पनागौरवपरिहारक्षमः पन्थाः, अतः सुष्ठुक्तं " शब्द कल्पनायां सा च शब्दकल्पना च" इति, तस्मात्फोटप्रतिपत्तौ यः क्रम आस्थेयः सो ऽर्थप्रतिपत्तावेवास्थीय - तामिति किं तेन स्फोटेन,
अन्ये तु उपलब्ध्यनन्तरसत्ताकानां वर्णानामर्थप्रत्यायकत्वमाचक्षते तदिह नेष्यते, क्षणिकत्वाद्वर्णानाम्, उपलब्धेरूर्ध्वसत्तानुपपत्तेः, सर्वथा व्युत्पत्त्यनुसारेण वर्णानामर्थप्रत्यायकत्वं तद्यथा पुरा दृष्टं तथा ऽभ्युपगम्यते इति तदुक्तं "यावन्तो यादृशा" इति,
यत्त्वत्र प्रतीपमुक्तं कियन्तः कीदृशा इति तत्र प्रतीतयः प्रष्टव्या न तप
( १ ) बलाकवातिके फोटवादे श्लो. १० । अल्पीयसापि यत्नेन उच्चरितं शब्दं यदि मतिः सकलं वर्णं न गृह्णाति तदा वर्णनामवयव सिद्धिः स्यात् साकल्यवैकल्यग्रहणे हि अवयवसिद्धिः नैवमस्तीति भावः ।