________________
प्रमाणप्रकरणम्
३४७
तां करिष्यति पूर्ववर्णेषु संस्कारात्स्मरणमन्त्यवणे श्रोत्रेन्द्रियादनुभव इत्येवं स्मर्यमाणानुभूयमानवणकरणको ऽर्थप्रत्ययः स्यात्को दोषः, . नन्वनुभवक्रमाहितसंस्कारसामथ्यमनुरुध्यमानाःस्मृतयो ऽपि क्रमेणेोत्पत्तमहन्ति न युगपदिति ततश्च प्राक्तन एव दोषःसामस्त्याभावादिति,नैष दोषः नानाव.
विषयः क्रमभाविभिरनुभवैः क्रमोपचयात्मा पुटपाकैरिव कार्तस्वरस्यैक एवात्मन: संस्कारः ताहगुपाधीयते येन सर्वानेव पूर्वदृष्टान्वर्णानसौ सकृत्स्मरतीति, संस्कारात्संस्कारोत्पत्तिरलौकिकीति चेन्नालौकिकी स्वाध्यायाध्ययने सिद्धत्वात् , उच्चारणक्रियायाः क्षणिकत्वात्तदाहिते संस्कारान्तरकारिणि संस्कारे ऽनिष्यमाणे ऽन्त्यमुच्चारणं प्रथमोच्चारणान्न विशिष्येत ततः किं पुरुषायुषेणापि नानुवाकएव आमुखीक्रियेत, ___ नन्वयमीदृशः प्रकारः एकस्मरणसिद्धये कल्पनीयः अर्थप्रतीतिहेतुता वा संस्कारस्य कल्पनीयेति सर्वथेयमदृष्टकल्पना ऽतो न पश्यामहे तत्र कः संस्कारं प्रति पक्षपातः कश्च स्फोट प्रति विद्वेषः यदेष कल्प्यते नैष इति, उक्तमत्र तेनैव सुगृहीतनाम्ना भाष्यकारेण "शब्दकल्पनायां सा च शब्दकल्पना च" इति,
ननु नास्ति कल्पनाद्वैगुण्यं संस्कारो हि यथाप्रसिद्धि स्थित एव का तत्क. ल्पना न हि वयं स्मरणैककारणत्वं संस्कारधर्ममतिलचितवन्तो भवन्त इव, कथं न लधितवन्तो भवन्तः सर्ववर्णविषयकस्मरणकारिता भवद्भिरपि कल्पितैव यैव हि वर्तनी वर्णानामर्थप्रतीतो सैव स्फोटव्यक्तावपि तां च कल्पयित्वा शब्दो ऽन्यः कल्पित एवमतश्च संस्कारोभयवादिविहितस्य स्मरणकारित्वमुल्लङघ्या. र्थप्रत्ययकारित्वं केवलमस्माभिरभिहितम, भवद्भिस्तु मूलत एवारभ्य नवं वि. श्वमुत्थापितमपूर्वस्य शब्दस्य तावदस्तित्वं पुनर्वर्णव्यतिरिक्तत्वं पुनरवयवराहि. त्यं कल्पितमिति कथं न कल्पनागुरुत्वम् तदुक्तम्
सद्भावव्यतिरेको च तथा ऽवयववर्जनम् ।
तवाधिकं भवेत्तस्माद्यनो ऽसावर्थबुद्धिषु इति(१) ।। यत्पुनरवादि प्रथमवर्णबुद्धिवेलायामिव व्यक्तं स्फोटतत्त्वमुत्तरोत्तरबुद्धिभिरतिशयिततरप्रत्ययतां नीयते रत्नतत्त्ववदिति, स एष विषम उपन्यासः रत्नस्य हि सावयवत्वात्प्रथमप्रत्ययाविषयीकृतसूक्ष्मतरावयवविशेषप्राहिणामुत्तरोत्त. रप्रत्ययानामस्ति तत्रावकाशः, स्फोटस्तु वर्णस्वरूपवदनंश इति तत्स्वरूपसर्व
(१) श्लोकवातिके स्फोटवादे श्लो. ९४ । तव स्फोटवादिनः स्फोटसद्भावः वस्य च वर्णेभ्यो व्यतिरेकः सावयवे पदे गम्यमाने तद्विपरीतं निरवयवत्वं च कल्पनीयम् तस्मादवच्याश्रयणीयः संस्कारादिकल्पनांश: अर्थबुद्धावेवाश्रयणीयो न स्फोटाभिव्यक्ता. वित्यर्थः।