SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३४६ न्यायमअर्याम् ___ उच्यते, विशिष्टानुपूर्वीकवर्णमालाऽनुभवसमनन्तरभावी हि सङ्कलना प्रत्ययो ऽर्थप्रतीतेहेतुर्न स्तबकाकारपरिच्छेदमात्रं विपरीतक्रमाशङ्कनं च तदानीं कुतस्त्यम् , स्तबकावभासे तावत्क्रम एव नास्ति कस्य वैपरीत्यमवैपरीत्यं वा यदनन्तरजन्मा ऽयं समुच्चयप्रत्ययः ताश्च तद्विशिष्टक्रमावभासिन्य एव पूर्वभाविन्यो वर्णबुद्धय इति कुतो वैपरीत्यविकल्पः, तस्मात्प्रथमावगमनियतानुपूर्वी कास्ते तदनन्तरभाविसमस्तावमासिसङ्कलनाप्रत्ययोपोरूढा वर्णा अर्थप्रतीति. कारिण इति न दोषः, यथा(१) “पूर्ववर्णजनितसंस्कारसहितो ऽन्त्यवर्ण" इति तत्र भवता मीमांसाभाष्यकृता वर्णितं तथा वा वर्णानामर्थप्रत्यायकत्वमस्तु, नन्वत्रोक्तं संस्कारस्यार्थप्रतीतिजनकत्वं न दृष्टपूर्व स्मृतावेव तस्य व्यापार इति, किमियं राजाज्ञा स्मृतिरेव संस्कारेण कर्त्तव्येति नेयं राजाज्ञा नयाज्ञा स्वेषा न हि संस्कारो नाम स्वतन्त्रः को ऽपि धर्मी किं तु पट्वभ्यासादरप्रत्ययगृहीतेष्वर्थेषु यदात्मनः स्मरणकारणं स संस्कारः सा च स्मृत्यैव कायेंण कल्प्यमाना शक्तिः न च शक्तिरूपस्य संस्कारस्य शक्त्यन्तरमर्थप्रतीतिजन्मनि सम्भवति येनैव कार्येण सा कल्प्यते शक्तिस्तदपहाय किं कार्यान्तरं कुर्यात् , स्मरणहेतोश्च संस्कारस्य प्रसवकारणमनुभवः अनुभवहेतोस्त्वस्य नूतनचरितस्य संस्कारस्य जन्मनिमित्तमेव नेोत्पश्यामः तस्मान्नासावर्थप्रती. तिहेतुर्भवति, __नैतत्सारं, वर्णानुभवसंस्कृतमतेः पुंसो ऽर्थप्रतीतिदर्शनान्न हि स्मरणशक्तिः संस्कारः किं त्वात्मगुणो वासनाख्यः स च स्मृतिमिवार्थप्रतीतिमपि जनयितु. मुत्सहते सर्वत्र नो दर्शनं प्रमाणं स्मरणजननकौशलमपि तस्य तथा दर्शनाद. वगम्यते तदिदमनुभवजननमपि ततो दृश्यते एव वर्णाश्च तदनुभवाश्च व्य. तीताः अन्यच्च शब्दतत्त्वं नानुभूयते इति वक्ष्यामः, अस्ति चार्थप्रतीतिर्नासौ निष्करणिका करणव्यतिरेकेण हि सा ऽनुद्भवन्ती करणमाक्षिपति यदस्याः करणं स संस्कार इति स्मृतिरिवार्थप्रतीतिरपि तत्कार्यत्वात्तदनुमापिका भवत्येव, यत्तु कुतस्तादृशः संस्कार उदेति जडप्रश्नो ऽयम् अनुभवहेतुकस्य सुप्रसि. द्धत्वात् , तथा चाह, “वस्तुधर्मो ह्येष यदनुभवः पटीयान्स्मृतिबीजमाधत्ते"इति, ननु स्मृतिबीजमिति यदुच्यते तत्कथमनुभवबीजं स्यानैष नियमः स्मृतेरेव बोजमिति, अनुभवस्तावत्तथाविधमात्मधर्ममाधत्ते स कार्यभेदो ऽपि नोत्पत्तौ कारणान्तरं मृगयते कार्यभेदश्व तथा दर्शनादवगम्यते इत्युक्तम् , अथ वा किमनेन निर्बन्धनेन साक्षादर्थप्रतीतिकारी संस्कारः स्मृतिद्वारेण (१) शाबरभाष्ये अ० १ पा० १ सू० ५ ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy