SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३४५ प्रमाणप्रकरणम् ३४५ र्थाभिधायिनो भविष्यन्ति, स्फोटे अनुमानगम्यताया निराकरणम् - ननु ग्राससंस्थादीनां युक्तं समस्तानां क्रमभावित्वं यतः कार्यमपि तदीयं तृप्त्यादि क्रमेण निर्वय॑मानं दृश्यते, यद्येवमाग्नेयादिभ्यः तर्हि क्र. मेण निवर्त्यमानं कि कार्यमुपलभ्यते अवान्तरापूर्वमिति ब्रूमः, शब्दप्रामाण्यात् परमापूर्वनिर्वृत्तिस्तु तेषां सामस्त्ये सति सेत्स्यतीत्युच्यते, अवान्तरापूर्वनिर्वृत्ताविदानी क्रमभाविनामाग्नेयावयवभूतक्रियाक्षणानां किम. वान्तरं कार्य का वा तस्य निर्वृत्तिरुपलभ्यते न ह्यवान्तरापूर्वेण स्वर्गमात्रा का चिदभिनिर्वय॑ते शास्त्रार्थस्य तदानीमनिष्पन्नत्वादतः किमयान्तरापूर्वेण कृते. नापि यत्किं चित्त्ववान्तरापूर्वप्रायं कार्य वर्णेष्वपि न न दर्शयितुं शक्यते, किं तदिति चेत् स्वरूपग्रहणं संस्कारो वा भविष्यति, तयोः प्रधानकार्यावयवत्वं नास्तीति चेद् मा भूदवयवत्वं तदुपयोगिता तु विद्यते एव, अवयवावयविव्यवहारस्तु अवान्तरपरमापूर्वयोरपि दुरुपपादः, पदानां तु वाक्यार्थप्रतिपत्तिलक्ष. णप्रधानकार्यावयवभूतपदार्थज्ञानाख्यकार्यनिर्वर्तकत्वमतिस्पष्ठमस्त्येवेति न तेष्वेष दोषः प्रादु:ष्यात, वर्णानामपि गमनक्रियालक्षणानामिव ग्रामप्राप्तौ ग्रासानामिव तृप्तो संस्थानामिवामुखीकरणे यद्यपि क्रमोपचीयमानतत्कायमात्रासमुन्मेषो नास्ति तथापि तदोपयिकस्योपलब्धिसंस्कारादिकार्यस्य करणात्तत्कार्यावयवी ताव. स्कृतो भवतीति न समस्तानां क्रमकारित्वमपहीयते, तत्र पूर्वे वर्णा अतीता अप्युपकरिष्यन्ति चरमवर्णस्तु वर्तमान इतीदृश एवायं काल्पनिकः क्रियाक्षणसमूह इव वर्णसमूहो ऽर्थप्रत्यायकः, ____ अथ वा क्रमेापलब्धेष्वपि वर्णेषु मानसमनुव्यवसायरूपमखिलवर्णविषयं सङ्कलनाज्ञानं यदुपजायते तदर्थप्रत्यायनाङ्गं भविष्यति, दृश्यते च विनश्वरेष्वपि पदाथोन्तरेषु क्रमानुभूतेषु युगपदनुव्यवसायो मानस: 'शतमाम्राणि भक्षितवा. न्देवदत्त' इति, न चायं प्रत्ययो नास्ति सन्दिग्धो बाध्यते वा, अनभ्युपगम्यमाने चेदृशि समुच्चयज्ञाने तन्निबन्धना भूयांसो व्यवहारा उत्सीदेयुः, स चायं सङ्क: लनाप्रत्ययः स्मर्यमाणानुभूयमानप्राक्तनान्त्यवर्णविषयतया सदसद्वर्णगोचरश्चित्ररूप उपेयते, यदि वा ऽन्त्यवर्णे ऽपि तिरोहिते भवन्नसद्वर्णगोचर एव न चित्रा. कारः सेो ऽर्थप्रतीतिहेतुरेक एवेति निरवकाशा व्यस्तसमस्तविकल्पाः, ___ननु सङ्कलनाप्रत्यये ऽपि यदि ते वर्णाः क्रमेणावभासन्ते तदसावपि पूर्वो. त्पन्न कैकवर्णबुद्धिनिविशेष एव स्यादिति तदुपारूढा अपि वर्णा नार्थप्रतीतिहे. तवा भवेयुः यदि त्वेकसुमनस्स्तबकाकारावभासी स प्रत्ययः तदा तस्मिन्क्रमा नवगमाद्विपरीतक्रमा अपि ते वर्णा अर्थप्रतीतिकारिणः स्युः, ४४ न्या०
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy