SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३४४ न्यायमञ्जर्याम् सदलमतिप्रसक्तानुप्रसक्त्या द्राघीयसी चर्चेयम् प्रकृतान्तरायकरिणीति न प्रतन्यते इह त्वेतावतैव पुनः प्रयोजनम् वर्णपदपूर्वको व्यवहारो न भवतीति वाक्येन लोके व्यवहारात्तस्य चावयवावयविव्यवस्थानुपपत्तनिर्भागमेव तद्वाच. कं निर्भागश्च तस्य वाच्यो ऽर्थ इति, अवान्तरवाक्यमपि प्रयोगयोग्यं व्य. वहारकारणमिति तन्न नियते अविद्यावस्थेयं वर्तते तत्रेयं व्यवहारवर्तनी यथादृश्यमानेवास्तु विद्यायां सर्वमेवेदमसारमिति, पदेन वर्णन वा व्यववहाराभावात्तस्य केवलस्याप्रयोगात्तत्स्वरूपमस्यामपि दशायां न वास्तव. मिष्यते इति । तस्मादेकः क्रमविरहितः कल्पितासद्विभाग वाक्यस्फोटो जनयति मतिं तादृशीं स्वाभिधेये । वास्त्वेते प्रकृतिलघवः कल्पनैकप्रतिष्ठाः तस्मिन्नर्थे विदधति धियं नेत्यलं तत्कथाभिः ॥ स्फोटनिराकरणोपक्रम:अत्राभिधीयते, किमयमनुमानमहिम्ना स्फोटाऽभ्युपगमः प्रत्यक्षप्रतीति. वलवत्तया वा, न तावदनुमानतः स्फोटस्वरूपमुपपादयितुं पार्यते परिदृश्य. मानविशिष्टानुपूर्वीकवर्णकलापकरणेनार्थप्रतीतेर्घटमानत्वात् , वर्णानां वाचकत्वस्य समर्थनम्ननु व्यस्तसमस्तादिविकल्पैरुत्सादितं वर्णानां वाचकत्वम् , नैतद् दुर्विकल्पास्ते व्यस्तानां तावद्वाचकत्वं नेष्यते वर्णानां समस्ता एव ते वाचकाः, यत्ततत्सामस्त्यं नास्ति क्रमभावित्वादिति तदसत् , क्रमभाविनापि समस्तानां कार्यकारिणामनेकशो दर्शनात् , यथा युगपद्धानिनः समास्त्रयो ग्रावाणः एका. मुखां धारयन्तो दृश्यन्ते तथा क्रमभविनो ऽपि समस्ता प्रासा एकां तृप्तिमुत्पा. दयन्तो दृश्यन्ते, एकस्मिन्नपि हि ग्रासे हीयमाने न भवति तादृशी तृप्तिः अतः समस्ता एव ते ग्रासाः तृप्तेः कारणम् , न च समस्ता अपि ते ग्रासाः युगपत्प्रयोक्तुं शक्याः तथैकानुवाकग्रहणे संस्थानां क्रमभाविनीनामपि सामस्त्ये सति सामर्थ्यमेकया संस्थया विना तदामुखीकरणासम्भवात् एवं तावल्लोके सामस्त्यं क्रमभाविनां दृष्टम् , वेदे ऽपि दर्शपूर्णमासाभ्यामितीतरेतरयोगशंसिना द्वन्द्वन समर्पितसाहित्यानामाग्नेयादियागानां पक्षद्वये प्रयोज्यत्वेन चापरिहार्यक्रमाणामे. काधिकारसम्पादकत्वं दृष्टम् , तथा ऐन्द्रवायवं गृहाति आश्विनं गृह्णाति इति सो मग्रहणाभ्यासानां समस्तानां क्रमभाविनां चैकप्रधाननिर्वर्तकत्वं दृष्टमित्यतश्च नायं विरोधः सामस्त्यं च क्रमभावित्वं चेति, एवं क्रमवतिनेो ऽपि वणों एवा.
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy