________________
प्रमाणप्रकरणम्
३४३
संप्रत्ययो दृश्यते तस्मादपि न पारमार्थिकः पदवर्णविभागः, निरस्तावयवं वाक्यं तथाविधस्यैव वाक्यार्थस्य वाचकमिति सिद्धम् ,
स्फोटस्य ब्रह्मरूपत्वम्ननुयथा पदेषु वर्णा न सन्ति वाक्येषु पदानि न सन्ति तथा महावाक्ये. ध्ववान्तरवाक्यान्यपि न स्युः ततः किं महावाक्यान्यपि प्रकरणापेक्षया न ता. त्त्विकानि स्थुः ततः किं प्रकरणान्यपि शास्त्रापेक्षया न स्युः ततो ऽपि किम् एकमेवेदं शास्त्रतत्त्वम् अविभागमद्वयमापतति,
उच्यते यदि तत्त्वं पृच्छसि बुद्धयसे वा साधो शब्दब्रह्मवेदमद्वयमनाद्यविधावासनोपप्लवमानभेदमर्थभावेन विवर्तते न तु वाचकाद्विभक्तं वाच्यमपि नाम किं चिदस्ति, तस्मात्काल्पनिक एव वाच्यवाचकविभागो ऽयमविद्यैव विद्योपाय इत्याश्रीयते, वापता तत्त्वम् सर्वत्र प्रत्यये तदनपायात, यथोक्तम् ,
वापता चेदुत्क्रामेदवबोधस्य शाश्वती।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमशिनीति(१) ॥ सा चेयं वाक् त्रैविध्येन व्यवस्थितैवावभासते वैखरी मध्यमा पश्यन्ती. ति, तत्रेयं स्थानकरणप्रयत्नक्रमव्यज्यमानगकारादिवर्णसमुदायत्मिका या वाक् सा वैखरीत्युच्यते, विखर इति देहेन्द्रियसंघात उच्यते तत्रभवा वैखरी तदुक्तम्
स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा ।
वैखरी वाक् प्रयोक्तणां प्राणवृत्तिनिबन्धनेति(२) । या पुनरन्तः संकल्प्यमानक्रमवती श्रोत्रग्राह्यवर्णरूपा ऽभिव्यक्तिरहिता वाक्सा मध्यमाच्यते, तदुक्तम्
केवलं बुद्धयपादाना क्रमरूपानुपातिनी।
प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ॥ इति(३)। या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशसंविद्रूपा वाक्सा पश्यन्तीत्युच्यते, तदुक्तम्
अविभागात्त पश्यन्ती सर्वतः संहृतकमा। स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनीति(४)।
(१) वाक्यपदीये प्रथमकाण्डे श्लो०१२५ । अवबोधस्य ज्ञानस्य नित्या वाग्रपता यदि उत्क्रामेत् अपगच्छेत् तदा प्रकाशः न प्रकाशेत सा वापता हि यतः प्रत्यवमा. शिनी सविकल्पकरूपा ।
(२)(३)(४) भारतवचनत्वेनैते श्लोकाः वाक्यपदीयटीकायां पुअराजकृतायां प्रथमकाण्डे १४४ श्लोके लिखिताः ।