________________
३४२
न्यायमञ्जर्याम्
दानुगमे तदर्थानुगमदर्शनात्पारमार्थिकत्वं भागानामिति चेन्न, काक्षराननुगमे ऽप्यर्थानुगमाभावात् न च केवलानुगममात्रेण तत्कारणभावो कूप सूप पानावक्तुं शक्यो रेणुपटलानुगामितया करितुरगादिवत्पिपीलिकापङ्क्तेरपि दृश्यमानायास्तत्कारणत्वप्रसङ्गात्, तस्मात्प्रकृतिप्रत्ययांशवद सत्पदार्थपरिकल्पनं वाक्यार्थावगमेोपायतया ऽऽश्रीयते न त्वर्थस्तदीयः तत्राश्वकर्णादिवदुपलभ्यते, असत्यमपि सत्योपायतां प्रतिपद्यमानं दृश्यते अलीका हि दंशादयः सत्यमरणकारणं भवन्ति लिप्यक्षराणि चासत्यान्येव सत्यार्थप्रतिपत्तिमादधति, स्वरूपसत्यानि तानीति चेन्न, रेखारूपतया तेषामर्थाप्रतिपादकत्वात् गकारो ऽयमिति एवं गृह्यमाणा रेखा अर्थप्रत्ययहेतवस्ताः येन रूपेण सत्यास्तेन नार्थप्रतिपादिका: येन चार्थप्रतिपादिकास्तेन न सत्या इति,
ननु प्रकृतिप्रत्ययाद्यंशा अपि परमार्थसन्त एव तथा प्रतिभासात्तदर्थप्रत्ययहतुत्वाच्च, नैतदेवम् अन्वाख्यानभेदेन तेषां स्वरूपेणेयत्तानिश्चयानुपपत्तेः भवतीत्यत्र भूशब्दः प्रकृतिः क्व चिदन्वाख्यायते क्वचिद्भवशब्दः प्रत्ययादेशागमगुणवृद्धिवर्णलेापाद्यन्याख्यान विसंवादात्कः पारमार्थिकः प्रकृतिप्रत्ययविभागः, कल्पनामात्रं त्वेतत् 'इयं प्रकृतिरेष प्रत्यय ' इति,
एवं पदार्थानामपि वाक्यार्थ परिकल्पनयैवापोद्धारः तदुक्तम्-पदं कैश्चिद् द्विधा भिन्नं चतुर्धा पञ्चधा ऽपि वा । अपोद्धृत्त्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवदिति (१) ॥
अपि च पारमार्थिकत्वे पदानां नियतमविसंवादि रूपं प्रतीयेत विसंवा दि तु तत्, नामाख्यात साधारण वर्णसन्निवेशदर्शनान्न नियतं तेषां रूपमतः काल्पनिकमेव तन्न वास्तवम्, न च निश्चेतुमपि तत्पार्थते "काले नदन्ति नागा" इत्यत्र हि कीदृशः पदविभागः अर्थद्वयेापपत्तेः, उभयत्र च वर्णतुल्यत्वात् किं कालेन कृष्णेन दन्तिना हस्तिना अगास्त्वम् इत्येवमेतानि पदानि व्यवस्थायन्ताम् अथ काले समये नदन्ति शब्दायन्ते नागाः करिण : फणिनो वेति, तस्मादनियमान्न पदतदर्थविभागः पारमार्थिकः,
अथ प्रथमप्रतिपन्नवाक्यार्थानुसारेण पदतदर्थविभागो व्यवस्थाप्य af किं तेन तदानां व्यवस्थापितेन वाक्यार्थस्य प्रथममेव प्रतिपन्नत्वात्,
किं च दध्यत्र मध्वत्रेति दधिमधुपदयोरिका कारयेोरदर्शनेऽपि तदर्थ -
( १ ) वाक्यपदीये तृतीयकाण्डे लो० १ वाक्येभ्योऽपोद्धृत्य कल्पनाबुद्धया पदं पृथ निष्कृष्य कैश्चित्पदं नामाख्यातभेदेन द्विधा भिन्नं कैश्चित्तु नामाख्यातोपसर्ग नि पातभेदेन चतुर्धा कैश्चित् नामाख्यातोपसर्गनिपातकर्मप्रवचनीयभेदेन पञ्चधा स्वीकृतम् ततश्चाखण्डवाक्यव्युत्पत्तिरित्यर्थः ।