________________
श्रमाण प्रकरणम्
३४१
पाधिकृतेयमेकाकारा बुद्धिरिति चेदेकार्थप्रतीरिदानीं कुतस्त्या, पदवाक्य • प्रतीतिपूर्विका हि पदार्थवाक्यार्थ प्रतीतिः पदार्थ वाक्यार्थ प्रतीत्याख्य कार्यैक्याच पदवाक्यबुद्धिरेकाकारेति दुरुत्तरमितरेतराश्रयत्वम् औपाधिकत्वं च सामान्यावयविबुद्धेरपि सुवचम्, बाघसन्देह र हितप्रतीतिदाढर्यात्तत्र परिहार इति चेत्तदितरत्रापि समानम्, तस्मात्पदबुद्धः पदस्फोटो वाक्यबुद्धेश्व वाक्यस्फोट विषय इति प्रत्यक्ष एव स्फोटः तत्र पदस्फोटात्पदार्थप्रतिपत्ति: वाक्यफोटाच्च वाक्यार्थप्रतिपत्तिः,
9
वाक्यस्फोटसाधनम्-
यदि निरवयवः स्फोटात्मा शब्दो भवति वाक्यमपि शब्द एव तस्य पदात्मकास्त्ववयवा मा भूवन् तस्य चेत्पदात्मानो ऽवयवा भवन्तिपदस्यापि तर्हि वर्णात्मानो ऽवयवा भवन्तु,
उच्यते कि चिदुच्छ्वलितमेत्र मे हृदयम्, मन्ये भविष्यत्यायुष्मता विवेकालोको बोध्यमानो भाय से किंचित्, ध्वन्युपाधिभेदप्रवृत्तवर्णभेदावभासविप्रलब्धबुद्धिं भवद्विधं बोधयितुं पदस्फोट एष निरवयवो ऽस्माभिर्दर्शितः, परमार्थतस्तु पदस्फोटा वाक्यावयवभूतो नास्त्येव निरवयवमेव वाक्यं निरवयवस्यैव वाक्यार्थस्य बोधकम, यथा पदस्यावयवान सन्ति तथा वाक्यस्यावयवाः पदानीति, तथा चाहुः " वाक्ये पदानामसत्त्वादसत्त्वं तदर्थे पदार्थानां निरवयवो वाक्यवाक्यार्थी" इति, अवयव कल्पनायां हि यथा वाक्यस्यावयवाः पदानि पदानामववा वर्णा एवं वर्णानामप्यवयवैर्भवितव्यं तदवयवानामप्यवयवान्तरैरित्यानन्त्यात्का व्यवस्था स्यात्, वर्णान् प्राप्य तु यद्यवयव कल्पनात विरन्तव्यं तद्वाक्ये एव विरम्यताम्, एकघटनाकारा हि वाक्यार्थबुद्धिस्तथाविधादेव वाक्यादुत्पत्तुमइति, वृद्धव्यवहाराद्धि शब्दार्थे व्युत्पद्यन्ते व्यवहर्त्तारः तत्रास्य पदस्य प्रयोग एव न केवलस्य दृश्यते व्यवहारानङ्गत्वाद् वाक्यं तु प्रयोगार्हमिति तत्रैव व्युत्पत्तिः तत एवार्थसम्प्रत्ययः, अवयवप्रतिभासस्तु भ्रममात्रमर्थोऽपि वाक्यस्यैक एवनरसिंहाकारः, जात्यन्तरं हि नरसिंहो नाम तत्र न नरार्थी नापि सिंहार्थ:,
"
एवं पदार्थेभ्यो ऽन्य एव वाक्यार्थः पानकादिवत् यथा पानकं शर्करानागकेशरमरिचादिभ्यो ऽर्थान्तरमेत्र यथा च सिन्दूर हरिताललाक्षादिभ्यो ऽर्थान्तरमेव चित्रम्, यथा वा षड्जर्षभगान्धारधैवतादिभ्यो ऽर्थान्तरमेव ग्रामरागः तथा पदेभ्यो वाक्यं पदार्थेभ्यो वाक्यार्थः,
वाक्यांशानामसत्यत्वम् -
कथं तर्हि तदंशावगम इति चेत् कल्पनामात्रं तत् नासौ परमार्थः, तच्छ