________________
३४०
न्यायमअर्याम् विहितं "शब्दकल्पनायां सा च शब्दकल्पना च"इति,
नैष दोषः, न स्फोटव्यक्तौ विकल्पाः प्रभवन्ति, कुतः एके तावदाचक्षते प्रथमवर्णश्रवणवेलायां स्फोटो ऽभिव्यक्तो भवति न च द्वितीयादिवर्णवैफल्यं तदा वगतेरेवातिशयकरणाद्यथा रत्नपरीक्षकाणां प्रथमदर्शने रत्नरूपममलमप्रकाश मानमपि पुनः पुनः परीक्षमाणानां चरमे चेतसि चकास्ति निरवयं रत्नतत्वम्, एवमिहापि प्रथमवर्णश्रुत्या व्यक्ते ऽपि स्फोटे स्फुटतरप्रतीत्यै वर्णान्तराणि प्रयोक्ष्यन्ते इति,
ध्वनीनां स्फोटव्यअकत्वम् - अपरे तु वदन्ति ध्वनय एव स्फोटस्य च व्यन्जकाः तैश्च मरुद्भिरनवयव एव एष स्फोटो ऽभिव्यज्यमानस्ताल्वादिस्थानकरणसंयोगोपाधिवशोपप्लवमा. ननानाकारगकारादिभागयोगीव प्रतिभासते, मरुतां चञ्चलत्वादुच्चारितप्रध्वंसिनस्ते तं काल्पनिकाकारमवभासयन्ते, दृष्टं चोपाधिवशादसत्यमपि रूपम. वभासमानं यथा कृपाणमणिदर्पणादिव्यञ्जकभेदेन श्यामदीर्घादिरूपं वदनस्य, नादात्मको हि शब्द। वीणावेणुमृदङ्गपटहादिव्यजकभेदेन नानात्वमुपगच्छ. न्हश्यते तम्मान पारमार्थिका एव ते वर्णाः न च स्फोटस्य व्यन्जका इति क समस्तव्यस्तविकल्पाः प्रभवेयुः, ___ उपाधिभेदेन प्रतिभासमाना असत्याकाराश्च ते ऽर्थप्रत्ययान्वयव्यतिरेकानु. विधायिनो दृश्यन्ते तेन यदुच्यते शब्दकल्पनायां कल्पनाद्वैगुण्यमिति तत्रैक. गुणा ऽपि कल्पना मास्ति का कथा द्वैगुण्यस्येति,
तस्मात्स्फोटात्मकादेव शब्दादर्थप्रत्ययो वर्णानुविधायित्वं तु तस्यान्यथा. सिद्धमिति सिद्धम् ,
स्फोटस्य प्रत्यक्षग्राह्यत्वम्अपि च तार्किकाणामनुमानप्रियत्वात्तत्परितेषायेदमनुमानमभ्यधायि न परमार्थतः परमार्थतस्तु श्रौत्रे प्रत्यये प्रतिभासमानः प्रत्यक्ष एव स्फोटः,
आह किमिदमपूर्व तस्काराचरितं वर्तते वर्णाः प्रत्यक्षमुपलभ्यमाना अपि दुर्भगान प्रत्यक्षाः स्फोटः पुनरनवभासमानो ऽपि सुभगः प्रत्यक्ष इति, - उच्यते न ब्रमः वर्णा न प्रत्यक्षा इति ते पुनरसन्तो ऽपि उपाधिवशाद्वद. नादिवदवभासम्ते, शब्दस्त्वेको निरवयवः प्रतीयते तथा च पदमिति वाक्यमित्येकाकारप्रतीतिरस्ति न च भिन्ना वर्णास्तस्यामालम्बनीभवन्ति न हि सामान्यप्रत्ययो व्यक्त्यालम्बनो ऽवयविप्रत्ययो वा ऽवयवालम्बनः न घ सेनावनादिबुद्धिवदयथार्था पदवाक्यबुद्धिः बाधकाभावात् , एकार्थप्रत्याय