________________
प्रेमाणप्रकरणम्
अथ वर्णाः शब्दशब्देनोच्यन्ते ते चार्थप्रतिपादकास्तथापि शब्दादित्येक. त्वं विभक्त्यर्थो न संगच्छते शब्देभ्यः प्रतिपद्यामहे इति व्यवहारः स्यात् , स्फोटात्मनि तु शब्देऽर्थप्रतिपादके इष्यमाणे शब्दादिति प्रातिपदिकार्थो वि. भक्त्यर्थश्च द्वयमप्युपपन्नम् ,
ननु न स्फोटः शब्दशब्देनोच्यते किं तुवर्णा एव श्रोत्रग्रहणे ह्यर्थे शब्दशब्दः प्रसिद्धः ते च श्रोत्रग्रहणा इति, नैतदेवं शब्दत्वस्यापि श्रोत्रग्रहणात्मनो निर्भ रझाकाररवप्रभृतीनां च सत्यपि श्रोत्रग्रहणत्वे शब्दकार्यनिवर्तकत्वानुपपत्तेः, तस्माद्यतो ऽर्थप्रतिपत्तिस्स शब्दः अर्थप्रतिपत्तिश्च स्फोटादेव न वर्णेभ्य इति स्फाट एव शब्दः, _ नन्वेवं सति धूमादीनामप्यर्थप्रतीतिहेतुत्वाच्छब्दत्वं प्राप्नोति, मैवं वादीः अथ गोरित्यत्र श्रोत्रजप्रतिभासे बहवो ऽर्थाः प्रतिभासन्ते तत्र कस्तेषां शब्द इत्युपक्रम्य यतो ऽर्थप्रतिपत्तिस्स शब्द इत्युपसंहृते कुतो धमादीनां शब्दत्व. शङ्कावकाशः,
ननु चेयमर्थप्रतीतिवर्णेषु भवत्सु भवन्ती तेष्वभवत्सु चाभवन्ती तानुत्सृ. ज्य कथं स्फोटकार्यतामुपयायात् , उच्यते अनन्यथासिद्धं तद्भावभावित्वं त. कार्यतामवगमयति नान्यथासिद्धम्, इदं त्वन्यथासिद्धम् , का पुनरन्यथासिद्धिः स्फोटव्यञ्जकत्वाद्वर्णानां तदानन्तर्यमर्थप्रतीतेरुपप्लवते वर्णाभिव्यक्तः स्फोटो ऽथप्रतिपत्तिमादधाति भ्राम्यति जनो वर्णैरियमर्थप्रतीतिरुत्पादितेति,
वर्णानां स्फोटव्यञ्जकत्वम्ननु स्फोटव्यक्तावपीदानी वर्णानां क गतास्ते व्यस्तसमस्तविकल्पाः, आहे च भट्ट:(१)
यस्यानवयवः स्फोटो व्यज्यते वर्णबुद्धिभिः ।
सो ऽपि पर्यनुयोगेन नैवानेन विमुच्यते इति ॥ भाष्यकृताऽपि(२) "ननु संस्कारकल्पनायामष्टकल्पना"इत्याशङ्कय प्रति.
(१) श्लोकवातिके स्फोटवादे श्लो० ९१ । यच्च वर्णानां प्रत्येक न वाचकत्वं. मितरवर्णोचारणवैयापत्तेः न वा समस्तानां वर्णानामुच्चरितप्रध्वंसितया समुदायास. म्भवात इति वर्णानामर्थबोधकत्वे यदू दूषणं तत्स्फोटवादिमतेऽपि समानम् तथाहि प्रत्येक वर्णा न स्फोटव्यञ्जका इतरवर्णोच्चारणवैयर्थ्यात् न समुदिताः तेषा सच्चरितप्र. ध्वंसितया समुदायायोगादित्यर्थः ।
(२) शावरभाष्ये अ० १ पा० १ स०६ । शब्दकल्पनायां वर्णातिरिक्त. स्फोटरूपशब्दकल्पनायां सा स्फोटाभिव्यक्तये संस्कारकल्पमा अतिरिक्तस्फोटरूपशब्दकल्पना चेत्यर्थः।