________________
३३८
न्यायमअर्याम्
स्मृतिः, कुतः...भिन्नोपलम्भसंभूतवासनाभेदनिर्मिताः । ...... भवेयुः स्मृतयो भिन्ना न वेका ऽनेकगोचरा ॥ .. अथ वदेत्संकलनाशानमेकं सदसद्वर्णगोचरं भविष्यति तदुपारूढाश्च वर्णा अर्थ प्रत्याययिष्यन्तीति तदपि दुराशामात्रम् , तथाविधज्ञानोत्पत्तो कारणा. भावात् न चेन्द्रियमतीतवर्णग्रहणसमर्थन संस्कारो वर्तमानप्राही भवति न च यगपदिन्द्रियं संस्कारश्चेमा बुद्धिं जनयतः संस्कारस्य सहचरदर्शनाद्याहितप्रबोधस्य सतः स्मरणमात्रजन्मनि निर्मातसामर्थ्यास्येन्द्रियेण व्यापाराभावात् , तस्मान्न वर्णा वाचकाः,
अतश्चैवं यदि ते वाचका भवेयर्विपरीतक्रमप्रयुक्ता अप्यर्थ गमयेयः, क्रमश्चेदपेक्ष्यते स व्यतिरिक्ताव्यतिरिक्ततया चिन्तनीयः, अव्यतिरेके ते एव ते वर्णा इति कथं न बोधकाः व्यतिरेके तु किमप्यधिकं वाचकमभ्युपगतं भवतीति मत्पक्षमाजिगमिषति भवान् , . ननु व्युत्पत्तिवशेन शब्दो ऽर्थप्रत्यायकतामुपयाति व्युत्पत्तौ च यावन्तो यत्क्रमका वर्णा यमर्थमभिवदन्तो दृष्टास्त तावन्तस्तत्क्रमकास्तमर्थमभिवदिष्य. न्तीति किं विकल्पमालया, तदुक्तम् (१)
यावन्तो यादृशा ये च यदर्थप्रतिपादने । - वर्णाः प्रज्ञातसामर्थ्यास्त तथैवावबोधका इति ।। '' तदुच्यते, व्युत्पत्तिरेवेयं विचारणीया वर्त्तते परावगतिपुर्विका हि शब्दास्वयमवगतिः परावगतौ च के कियन्तः कथं कमर्थ प्रतिपादयन्तो ऽनेन दृष्टा येभ्यः तथैव तमर्थ प्रतीयादिति दुरधिगमा हि वर्णवर्तनी । ... यावन्तो याहशा ये चेत्येवं तावत्प्रभाषसे । कियन्तः कीदृशाः के चेत्येवं यावन्न पृच्छयसे ।
अनुमानेन स्फोठस्य साधनम्.. तस्मात्सर्वप्रकारमवाचका वर्णाः, अस्ति चेयं शब्दादुच्चारितात्तदर्थावगतिर्न चेयमकरणिकैव भवितुमर्हति तदस्याः करणं स्फोट इति, कार्यानुमानमिदमस्तु परिशेषानुमान वा अर्थापत्तिर्वा सर्वथा अर्थप्रतीतिलक्षणकार्यवशात्कल्प्यमानं तत्करणं स्फाट इत्युच्यते, स च निरवयवो नित्य एको निष्क्रमक इति न वर्णपक्षक्षपणदक्षदूषणपात्रता प्रतिपद्यते, अतश्च स्फोटो ऽर्थप्रतिपादकः तत्र शब्दा. दिति प्रातिपदिकार्थो ऽप्युपपन्नः,
(१) लोकवतिके स्फोटवादे श्लो. ६९। व्यवहारावगम्यं हि वाचकत्वं नास्मदिच्छाधीनमतो यथादर्शनं तदभ्युपगमान्न काचिदतिप्रसक्तिरस्तीति भावः ।