________________
प्रमाणप्रकरणम्
तस्मादनित्यानां वर्णानामेव वाचकत्वं प्रतिष्ठापनीयं पराकरणीयश्च स्फोट इति,
तदुच्यते, गकारादिवर्णावगमे सत्यर्थप्रतीतेर्भावात्तदभावे चाभावात्तेषामेवार्थप्रत्यायनसामर्थ्यम् , ते एव च श्रवणकरणकावगमगाचरतया शब्दव्यपदे. शभाज इति न प्रतीत्यनुपारूढः स्फोटो नाम शब्दः कश्चित्प्रत्यक्षानुमानातीतः परिकल्पनीयः,
वर्णानामर्थबोधकत्वस्य निराकरणम्___ आह कथमेवं भविष्यति दूरापेता इमे मनारथाः कुतो वर्णानामर्थप्रत्याय. कत्वं ते हि वर्णा गकारादयो ऽर्थ प्रतिपादयन्तः समस्ताः प्रतिपादयेयुः व्यस्ता वा, न तावास्ताः एकैकवर्णाकर्णने सत्यप्यर्थप्रतीतेरनुत्पादात् , सामस्त्यं वर्णानां नास्त्येव, तद्धि सत्तामात्रेण वा स्यात्प्रतीयमानत्वेन वा, नैयायिकपक्षे तावत्सत्तया यौगपद्यमविद्यमानम् आशुविनाशिन: शब्दस्य दर्शितत्वात् , ___ अथापि मीमांसकमतेन नित्यः शब्द इष्यते तत्रापि सत्तया योगपद्यस्य स. कलवर्णसाधारणत्वात्केन वर्णसमुदायेन को ऽर्थः प्रत्याय्यतेति नावधार्यते, ___अथोच्यते न चक्षुरादीनामिव वर्णानां कारकत्वं येनागृहीतानामेव सतां योगपद्यमात्रमर्थप्रत्ययनाङ्गं स्यात्, ज्ञापकत्वात्तेषां गृहीतानां सतां धूमादिवत्प्र. स्थायकत्वमिति प्रतीतादेव सामस्त्यमुपयुज्यते इति ।
एतदप्यघटमानम् , प्रतीति सामस्त्यं हि किमेकवक्तप्रयुक्तानां वर्णानामुत नानापुरुषभाषितानाम् , तत्रानेकपुरुषभाषितानां कोलाहलस्वभावत्वेन स्वरूपभेद एव दुरवगम इति कस्य सामस्त्यमसामस्त्यं वा चिन्त्येत, सत्यपि वा तथाविधे सामस्त्ये नास्त्येवार्थप्रतीतिः, एकत्रक्तप्रयुक्तानां तु प्रयत्नस्थानकरणक्रमा. परित्यागादवश्यम्भावी क्रमः क्रमे च सत्येकैकवर्णकरणिकार्थप्रतीतिः प्राप्नोति न चासो दृश्यते इति व्यस्तसमस्तविकल्पानुपपत्तेर्न वर्णा वाचकाः, वर्णेविषया अपि बुद्धयस्तथैव विकल्पनीयाः, ता अपि न युगपत्सम्भवन्ति क्रम च सत्ये. कैकवर्णबुद्धेरर्थसम्प्रत्ययः प्रसज्यते इति, ___ यदप्युच्यते पूर्वपूर्ववर्णजनितसंस्कारसहितो ऽन्त्यवर्णः प्रत्यायक इति तदप्ययुक्तम् , संस्कारो हि नाम यदनुभवजनितस्तद्विषयमेव स्मरणमुपजन. यति न पुनरर्थान्तरविषयं ज्ञानमिति, स्मृतिद्वारेण तयर्थप्रत्यायको ऽसौ भवि. प्यतीति चेद् एतदपि नास्ति, ज्ञानयोगपद्यप्रसङ्गादत्यवर्णज्ञानानन्तरं हि पूर्ववर्णस्मरणमिव समयस्मरणमपि तदैवापतति ततश्च ज्ञानयोगपद्यम् , न च क्रमोत्पादे किं चित्कारणमुत्पश्यामः, अथापि तेन क्रमेण भवेतां तथा ऽपि तदानोमन्स्यवर्णज्ञानमुपरतमिति कस्य साहायकं पूर्ववर्णस्मृतिर्विदधातीति, एतच्चानेकपूर्ववर्णविषयामकां स्मृतिमभ्युपगम्योक्तं न पुनरेका सर्ववर्णगोचरा
४३ न्या०