________________
३.३६
न्यायमअर्याम्
नितात्मनि बाह्ये ऽर्थे वासनानुसारेण कुणप इति कामिनीति भक्ष्यमिति प्रतिभा भवन्ति तथा शब्दार्थे ऽपि व्याघ्रागमने ऽवगते शूराणामुत्साहः कातराणां भयमित्यादि कार्य भवति न त्वेतावता प्रतिभा शब्दार्थो भवितुमर्हति तस्माद्वाक्यप्रयोजनत्वेन वा यदि प्रतिभा वाक्यार्थः कथ्यते कथ्यतां नाम न त्वसौ शब्दस्याभिधेया, अनभिधेया ऽपि संसर्गवद्वाक्यार्थ इति चेतत्राप्युक्तम्, संसष्टा अर्था वाक्यार्थो न संसर्गः, एवमिहापि प्रतिभान्तो ऽर्था वाक्यार्थो न प्रतिभेति, शब्दस्य च प्रत्यक्षवद्वर्त्तमानार्थनिष्ठत्वाभावाद् अनागताद्यर्थभिधायिनोऽर्थासनिधानेन प्रतिभापरत्वम् यदुच्यते तदप्ययुक्तम, अनागतादिविषयत्वे ऽपि तस्यार्थविषयत्वं प्रसाधितमिति कृतं विस्तरेण ।
वाक्यार्थः परमार्थ एव तदयं ना कल्पनानिर्मितः तद्वानप्युदितः पदस्य विषयस्तेनार्थ संस्पर्शिता । प्रामाण्यमतश्च ग्राह्यविषयाभावेन यद्वयते तच्छब्दस्य निरस्तमित्यकलुषं प्रामाण्यमस्य स्थितम् ॥ इति न्यायमञ्जर्या पश्चममाह्निकम् ॥
पदस्वरूपनिरूपणोपक्रमः ।
ननु नाद्यापि शब्दस्य निरणायि प्रमाणता बीजं पदार्थवाक्यार्थ बुद्धेर्न हि निरूपितम् ॥
उच्यते, किमत्र निरूपणीयं यदनन्तरं यद्भवति तत्तस्य निमित्तम्, पदवाक्यश्रवणे च सति पदार्थवाक्यार्थसंप्रत्ययो भवति इति ते एव तत्र निमित्तम् । किं पुनरिदं पदं नाम किं च वाक्यमिति, उक्तमत्र वर्णसमूहः पदं पदसमूहो वाक्यमिति,
नवेतदेव न क्षमन्ते न हि वर्णानां समूहः कश्चिदस्ति वास्तवः तेन कुतस्तत्समूहः पदं भविष्यति तद्भावच्च नतरां पदसमूहो वाक्यमवकल्पते न च वर्णानां व्यस्तसमस्तविकल्पोपहतत्वेन वाचकत्वमुपपद्यते तस्मादन्य एव स्फोटात्मा शब्दो ऽर्थप्रतिपादक इति प्रतिजानते,
नन्वेवमस्तु स्फोटा ऽन्य एवार्थप्रतिपादको भवतु का क्षतिर्नैयायिकानाम्, कथं न क्षतिः प्राप्तप्रणीतत्वेन हि शब्दस्य प्रामाण्यं तैरुक्तम्, स्फोटस्य च नित्यत्वेन श्राप्तप्रणीतत्वमतश्च यस्यानित्यत्वं वर्णात्मनः शब्दस्य साधितं -ना सावर्थप्रतीतिहेतुरतो न प्रमाणम् यश्चार्थप्रतीतिहेतुः स्फोटात्मा शब्दरतस्य नानित्यत्वं न चाप्तप्रणीतत्वमित्यस्थाने नैयायिकाः क्लिष्टा भवेयुः,
"