________________
प्रमाणप्रकरणम्
अन्योन्यसंगतिविशेषित एव यस्माद्वाक्यार्थभावमुपयाति पदार्थपुजः । एतच्च चेतसि निधाय ततो न भिन्नं वाक्यार्थमभ्यधित कं चन सूत्रकारः ।। प्राधान्ययोगादथ वा फलस्य वाक्यार्थता तत्र सतां हि यत्नः । प्रयोजनं सूत्रकृता तदेव प्रवर्तकत्वेन किलोपदिष्टम् ॥
उद्योगस्य वाक्यार्थत्वनिराकरणम्अपरे पुनर्लिङादिशब्दश्रवणे सति समुपजायमानमात्मस्पन्दविशेषमुद्योगं नाम वाक्यार्थमाचक्षते तत्स्वरूपं तु वयं न जानीमः, को ऽयमात्मस्पन्दो नामेति, बुद्धिसुखदुः खेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा हि नवात्मनो गुणा विशे. षगुणा भवन्ति नान्ये, तत्रायमात्मस्पन्दोबुद्धिर्वा स्यात्प्रयत्नोवा इच्छाद्वेषयोर. न्यतरो वा, अन्ये तु विकल्पयितुमपिन युक्ताः, तत्र यदि बुद्धिरात्मस्पन्द उच्य. ते तर्हि प्रतिभावाक्यार्थ इत्युक्तं भवति न नूतनं किं चिदुत्प्रेक्षितमेतत् , अथ प्रयत्न आत्मस्पन्दः तहि भावनाया नामान्तरकरणमुद्योग इति, अथेच्छाद्वेषये. रन्यतरो ऽसौ तर्हि सुखेच्छा दुःखजिहोसा वा वाक्यार्थ इत्यक्षपादपक्ष एवायं नापूर्व किं चित, अथापि भाट्टपरिकल्पितो व्यापार आत्मस्पन्दः सेो ऽपि भा. वनैव नार्थान्तरम् , अथानुष्ठेयः प्रेरकः कश्चिदर्थ उद्योगः स तहि नियोग एव उपसर्गान्यत्वमिदं न वस्तु अन्यत् ।
तस्मादश्रुतपूर्वेण कृतमुद्योगपर्वणा । स भारतमनुष्याणां गोचरो न तु मादृशाम् ।।
प्रतिभाया वाक्यार्यत्वनिराकरणम्अन्यैस्तु प्रतिभा वाक्यार्थ इष्यते तत्पक्षस्तु संसर्गनिर्भासज्ञाननिराकरणेन प्रागेव प्रतिक्षिप्तः।
प्रतिभा खलु विज्ञानं तच्च शब्देन जन्यते ।
न तु शब्दस्य विषयो रूपधीरिव चक्षुषः ।। बाह्यस्य विषयस्याभावात्सैव विषय इति चेन्न तस्य समर्थितत्वात् , यो ऽपि व्याघ्र आयात इत्युक्ते शूरकातरनराधिकरणनानाप्रकारकार्योत्पादः स बाह्येऽथें ब्याघ्रागमनादौ प्रतिपन्ने वासनानुसारेण भवन्न प्रतिभामात्रहेतुको भवति, तस्य हि ज्ञायमानो ऽर्थः करणं न तज्ज्ञानमात्रम् , अर्थस्तदानीं नास्तीति चेद् विप्र. लम्भकवाक्यमिदम् असत्यार्थ भविष्यति न त्वबाह्यविषयम् तत्, यथा ऽवस्थिते