________________
३३४
न्यायमञ्जर्याम्
सिद्धतन्त्रं कचित्साध्यं तत्तन्त्रमितरत्क चित् ।
शब्दप्रयोगतात्पर्यपर्यालोचनया भवेत् ।। ___ तस्माद्गुणप्रधानभावानियमादन्योन्यसंसृष्टः पदार्थसमुदायो वाक्यार्थ इति एतावदेव श्रेयः, संसर्गावगमे च सर्ववादिनामविवादः ।
वाक्यार्थ मन्वते ये ऽपि नियोगं भावनां क्रियाम् ।
तैरप्यन्योन्यसंसृष्टः पदार्थप्राम इष्यते ।। ननु संसर्गवदन्यव्यवच्छेदो ऽपि गम्यते गौः शुक्ल आनीयतामिति श्रुते कृष्णादिभ्यो व्यवच्छिद्यते, अन्यापोहस्तु न पदार्थ इत्युक्तम् , तस्मान भेदो वाक्याथे:,
ननु संसगों ऽपि न शब्दार्थः, सत्यम् , स हि शब्दस्याभिधेयो न भवति न तु ततो न प्रतीयते, अनभिधेयः कथं प्रतीयते इति चेद् एतदप्रे निणे. ष्यते, व्यवच्छेदे तु न सा गतिस्तस्मात्संसृष्टाः पदार्था वाक्यार्थ इति स्थितम्, ___ अथ वा गुणीभूतेतरपदार्थानुगृहीत एक एव प्रधानभूतः पदार्थो वाक्यार्थ इत्येकाकारप्रतीतिबलादुपेयताम्,
फलस्य वाक्यार्थत्वस्थापनम् - एकस्त्वयमसावर्थ इति न निणेतुं शक्यते, यदि त्ववश्यमेकम्य कस्य चिद. भिषेककलशो दातव्यः तत्फलस्यैव दीयताम् , न हि निष्प्रयोजनम् किं चिद्वाक्यमुच्चार्यते ।
कचित्साक्षात्पदोपातंक चित्प्रकरणागतम् ।
क चिदालोचनालभ्यं फलं सर्वत्र गम्यते ।। सकलेन च कारककलापेन क्रिया निर्वय॑ते क्रियया च फलं न तु फलेनान्यत्किमपि निवत्यते इति प्रधानत्वात्फलमेव वाक्याथेः,
ननु फलमपि पुरुषार्थमिति पुरुषः प्रधानं स्यात् नैतदेवम्, फलं सुखात्मक त्वात्पुरुषाश्रितं भवति सुखादीनामात्मगुणत्वान्न चेतावता पुरुषः प्रधानम्, सोऽ पि हि फलार्थमेव यतते भावना तावत्फलनिष्ठ एव व्यापारः नियोगस्यापि फलं विना न प्रवर्तकत्वमित्युक्तम्, क्रियाया अपि केवलाया वाक्याथत्वमपास्तम्।
तस्मात्फलस्य साध्यत्वात्सर्वत्र तदवजेनात् ।
क्रियादीनां च तादात्तस्य वाक्याथेतेष्यते ।। ननुफलस्य स्वर्गादेः निसर्गतः सिद्धरूपत्वात्कारकैस्सह सन्बन्धो न प्राप्नोति सिद्धस्य च कः संबन्धः, क्रियागर्भ इति चेत्तहि फलमपि कारकाण्यपि क्रियया सम्बध्यन्ते को विशेषः, सत्यम् , परं तु कारकाणि साधनत्वेन फलं तु साध्य. त्वेन क्रियया हि फलं साध्यतेन फलेन क्रियेत्यतः फलस्यैव प्राधान्यमिति सिद्धम् ।