________________
प्रमाणप्रकरणम्
दृशदिति तदीयां सरणिमनुसरद्भिरस्माभिरपि तथैव तत्कथितम्,
वाक्यार्थस्तु न क चिदपि सूत्र कारभाष्यकाराभ्यां सूचित इति चेत् पृथक्प्रस्थाना इमा विद्या', प्रमाणविद्या चेयमान्वीक्षिकी न वाक्यार्थविद्येति, ___ यद्येवं पदार्थो ऽपि कस्मादिह दर्शितः "व्यक्त्याकृतिजातयः पदार्थ" इति, स्थाने प्रश्नः स तु शब्दानामास्पर्शितां वदन्तं रुदन्तं च शमयितुं शब्दप्रा. माण्यसिद्धये सूत्रकृता यत्नः कृतः,
यद्येवं वाक्यार्थमपि बाह्यं वास्तवमन्तरेण शब्दप्रमाणता न प्रतिष्ठां लभते इति तत्रापि प्रयत्नः कर्त्तव्य एव, सत्यम , पदार्थप्रतिपादनयत्नेनैव तु कृतेन तत्र यत्नं कृतं मन्यते सूत्रकारः, यदयं पृथक्पदार्थभ्यो न वाक्यार्थमुपदिशति स्म, तस्मादयमस्याशयः, पदार्थ एव वाक्याथ इति, तत्किममुमेव पक्षमनुमोदामह पदाथ एव वाक्याथ इति, बाढं ब्रूमः, किं च नैकपदार्थों वाक्यार्थः, अने. कस्तु पदार्था वाक्याथः ।। ___नन्वनेको ऽपि भवन्पदार्थ एवासो न च पदार्थो वाक्यार्थी भवितुमर्हति सा. मान्ये हि पदं वर्तते विशेषे वाक्यम् अन्यच्च सामान्यम् अन्यो विशेषः अन्यत्राप्युक्तम् 'यत्राधिक्यं स वाक्यार्थ' इति तस्मादन्यः पदार्थः अन्यश्च वाक्यार्थः,
उच्यते, यदेतदुक्तमस्माभिरनेकः पदार्थो वाक्यार्थो न पुनरेक इति तन्न गृहीतमायुष्मता एतदुक्तं भवति परस्परं संसृष्टपदार्थसमुदायो वाक्यार्थ इति, संसर्ग एवा. धिक इति यत्राधिक्यमित्युच्यते, न चानाक्षिप्तविशेषत्वेन संसर्ग उपपद्यते इति विशेषो वाक्यार्थ इत्युच्यते संसर्गस्तु स्वरूपता न वाक्यार्थोऽपदार्थत्वात, गौः शुक्ल आनीयतामिति पदार्थप्रामे संसर्गवाचिनः पदस्याश्रवणात् , श्रवणे ऽपि सुतरामनन्वयात् गौः शुक्ल आनीयतां संसर्ग इति को ऽस्यार्थः, तस्मात्संसृष्टो वाक्यार्थो न संसर्गः, तदुक्तम् 'व्यत्तिषक्ततो ऽवगतेय॑तिषङ्गस्य'इति, न च तन्तुभिरिव पटो वीरणैरिव कटः तदतिरिक्तो ऽवयविस्थानीयः पदाथर्निवय॑मानो वाक्यार्थ उप. लभ्यते, जातिगुणक्रियावगमे ऽपि अवयविबुद्धरभावात् , न च पदाथावयवी वाक्पार्थः, तेन पृथग वाक्यार्थ नेोपदिष्टवानाचार्यः,
ननु गुणप्रधानभावमन्तरेण न संसर्गो ऽवकल्पते न चैकस्मिन्वाक्ये बहूनि प्रधानानि भवन्ति प्राधान्यमेव हि तथा सति न स्यात् , गुणास्तु बहवो भवन्ति तदिदमनेकगुणोपरक्तमेकं किं चित्प्रधानं स वाक्याथे इति तद्विषयेयमेकस्व. भावा बुद्धिः, सत्यम्, तथा ऽपिते एव संसृष्टाः पदाथों अवमासन्ते न तदारब्धः कश्चिदेकः संसगसिद्धिकृतस्तु गुणप्रधानभावो ऽभ्युपेयते, स च गुणप्रधानभावो न नियता यनैकमेवेदं प्रधानमिति व्यवस्थाप्येत, कचिक्रिया प्रधान कारक गुण: ब्रीहिभिर्यजेतेति, क चित्कारकं प्रधानं क्रिया गुणः द्रव्यस्य चिकोर्षितत्वे. नावगमाद् व्रीहीन प्रोक्षतीति ।