________________
न्यायमञ्जर्याम्
धनभावावगतिसिद्धः, न चांशद्वयावच्छिन्नस्य व्यापारस्य श्रेयसाधनत्वं रूपं वक्तमुचितम् अनिष्पन्नस्य तस्य ताप्याभावान ह्यनिष्पन्ने गवि तदेकदेशे सास्नादौ गोत्वरूपं सामान्यं निविशते नचांशत्रयपूरणमन्तरेण भावनाख्यव्यापारनिष्पत्तिरिति ।
यत्तु लिङादेः शब्दस्य तद्यापारस्य वा प्रेरकत्वमुच्यते तत्प्रागेव प्रतिक्षिप्तम्,
विधिरपि स्वमहिम्ना न प्रेरकस्साध्यसाधनसम्बन्धावबोधपुरस्सरे तु तस्य प्रवर्तकत्वे फलस्यैव प्रवर्तकत्वमिदमनक्षरमभिहितं भवति ।
यस्त्वाह प्रेरकत्वं चेत्फलं दर्शयतो विधेः । प्रत्यक्षादिसमानत्वात्स्वातन्त्र्यं तस्य हीयते ।। स वाच्यः फलशून्यत्वे सुतरामस्वतन्त्रता ।
यद्रिक्तमर्थ मूढो ऽपि न कश्चिदनुतिष्ठति ।। को हि नाम निष्फलमर्थ प्रेक्षावाननुतिष्ठेत् , ननु फले ऽपि दर्शिते के चित्तत्र न प्रवर्तन्ते एव, कि चातः कामं मा प्रवतिषत न हि कारको विधिरपि तु ज्ञापक इत्युक्तम् , ननु फलमप्रदर्शयन्नपि ज्ञापयेत् न ज्ञापयितुमुत्सहते प्रेक्षा. वान् हि ज्ञाप्यते न च फलं विना ऽसौ तथा ज्ञापितो भवति इत्यलं बहुभाषितया।।
फलस्यैवेष्यमाणस्य पश्यन्प्रेरकतामतः । यमर्थमधिकृत्येति सूत्रं व्यधित सूत्रकृत् ।।
प्रकरणार्थोपसंहारःतस्मात्पुंसः प्रवृत्तौ प्रभवति न विधर्नापि शब्दो लिङ्गादिव्यापारो ऽप्येतदीयो न हि पटुरभिधा भावनानामधेया। न श्रेयस्साधनत्वं विधिविषयगतं नापि रागादिरेवं तेनाख्यत्काम्यमानं फलममलमतिः प्रेरकं सूत्रकारः॥
वाक्यार्थस्वरूपनिरूपणम्आह
परपक्ष प्रतिक्षिप्य प्रेरकं कथितं फलम् ।
एवं परमतद्विष्टैाक्यार्थस्स्वयमुच्यताम् ।। उच्यते, यमर्थमधिकृत्य पुरुषः प्रवर्तते तत्प्रयोजन(१)मिति वदता सूत्र कृता फलं प्रवर्तकमिति प्रदर्शितम् , “प्रमाणेनायं खलु ज्ञाता ऽर्थमुपलभ्य तमाप्सति जिहासति बा तस्येप्साजिहासाप्रयुक्तस्य समीहा प्रवृत्तिरुच्यते सामर्थ्य पुनरस्याः फलेनाभिसम्बन्ध"(१) इति च ब्रुवाण भाष्यकारोऽपि फलेप्सां प्रवर्तिकां प्रादी
(१) न्यायसूत्रम् । अ. १ आ. १ सू. २४ । (१) न्यायभाष्ये चतुर्थ वाक्यम् ।