________________
प्रमाणप्रकरणम्
अतश्च प्ररकाज्ञानं शब्दादपि परस्य यत् । करप्यते कल्प्यतां तत्र प्रेरिका सैव सुन्दरी ।। चपेटापरिहाराय मोदकप्राप्तये ऽपि वा ।
प्रवर्तते वटुर्नासौ जुहुधीति नियोगतः ।। फलस्य प्रवर्तकत्वे पूर्वोदीरितदूषणजातस्य परिहरणम्-- कथं तयवमाचष्टे आचार्यचोदितो ऽहं जुहामीति, अस्त्वयं व्यपदेशः आचार्यचोदना तु न तत्र कारणम् अपि तु हिताहितप्राप्तिपरिहारथित्वमेवेत्यतः फलं प्रवर्तकं युक्तम् अनुभवसाक्षिकत्वात् ,
ये ऽप्याहुः प्रयोक्त्राशयस्य प्रवर्तकत्वं यतो ऽननुविधेयस्य वचनान्न प्रवर्त. मानः कश्चिद् दृश्यते अनुविधेयस्य पुंसः किं चिदब्रुवतो ऽपि भ्रूभङ्गादिनाऽऽशयमवगम्य प्रवर्तते इति । __ एतदप्ययुक्तम्-यतः प्रयोक्त्राशयानुमानेन स्वार्थसम्भावनया लोकः प्रवर्तते न पुनः प्रयोक्तव प्रीयतामिति तत्प्रीतिरपि स्वप्रीतिहेतुत्वेनार्थ्यते न तत्प्रीतित्वेन, बुद्धो ऽपि हि नाम सकलसत्त्वहितप्रतिपन्नः परार्थ स्वप्रयोजना. यैव सम्पादयति परार्थसम्पादनद्वारकं तु तत् , तस्मात्स्वप्रीतिरेव प्रवर्तिकाप्रयोक्त्राशयस्य च प्रवर्तकत्वे वेदार्थप्रयोक्त्राशयानवधारणादप्रवृत्तिरेव प्राप्नोतितस्मात्फलमेव प्रवर्तकम् , ___ यत्पुनः फलस्य प्रेरकत्वे दूषणमभ्यधायि सिद्धासिद्धविकल्पानुपपत्तेरिति तदप्ययुक्तम् , इच्छाविषयीकृतस्य प्रवर्तकत्वाभ्युपगमात, प्रसिद्ध कथं नेति चेद् असिद्धत्वादेव, इदानीं च तदसिद्धं नैकान्तासिद्धस्वरूपमेव खपुष्पवत् ।
सुख दुःखनिवृत्तौ वा पुंसां भवति कामना ।
न पुनोमपुष्पादि कश्चित्कामयते नरः ॥ ये ऽपि रागादेः प्रवर्तकत्वमभ्युपगतवन्तः तैरपि कामनाविषयीकृतं फलमेव प्रवर्तकमभ्युपगतम् , इच्छाविशेषा एव हि रागादयः,
यदपि श्रेयस्साधकं प्रवर्तकमुच्यते तदपि न चारु, सत्यामपि श्रेयः साध. नतायामर्थित्वेन प्रवृत्त्यभावात् ,
नन्वथिनो ऽपि नानियतविषया प्रवृत्तिः अपि तु नितिश्रेयःसाधनभावे ऽर्थे तस्मात्तत्साधनावगमः प्रवर्तकः, सत्यम् , द्वये सत्यपीच्छैव प्रवर्तिका वक्तुं यक्ता तस्यां प्रवृत्तिदर्शनात् , प्रवृत्तिर्हि नाम प्रयत्नः प्रयत्नश्चेच्छाकार्य इति काणादाः, विषयनियमे तु श्रेयस्साधनत्वं कारणं न प्रवृत्त्युत्पादे, किं च भावनावगतं श्रेयस्साधनत्वं प्रवर्तकमिष्यते तेस्तच्च न पृथगभिधातुं युक्तम् , भावनायाः व्यंशत्वेन तत्स्वरूपावगमसमये एतदंशयोः स्वर्गयागयोः साध्यसा