________________
न्यायमअर्याम्
उभयत्रापि लिप्सातः सति चैवं प्रवर्तने ।
अग्नीषोमीयहिंसादेः श्येनादिवदधर्मता ।। यदप्युक्तं कामाधिकारेषु काम्यमानभावार्थयोरुपायोपेयभावमात्रप्रतिपाद. नपर्यवसितो विधिव्यापार इति तदपि न सम्यक्, विधिपुरुषयोहि प्रेर्यप्रेरकलक्ष. णः संबन्धः तत्र यागादयो विषयत्वेन प्रतीयन्ते नेष्यमाणोपायत्वेन साध्यसाधनमात्रप्रतिपादनपर्यवसितव्यापारस्तु विधिविनियोगपर एव स्यात् , ततश्वाप्रवृत्तप्रवर्तकत्वं नाम निजं रूपं जह्यात् ।
विधश्चतुरवस्थत्वं फलतः किल कथ्यते । प्रेरकत्वं च तद्रूपं सर्वावस्थानुगामि यत् ॥ कायोत्मता ऽपि विध्यर्थ पेरणाज्ञप्तिपूर्विका । प्रेर्येणैव सता पुंसा तत्कार्यमवधार्यते ॥ लिङादिश्रुतितश्चादौ प्रेरणव प्रतीयते ।।
साध्यसाधनसंबन्धबुद्धिस्तबुद्धिपूर्विका ।। नन्वेवं काम्येषु कर्मसु विधितः प्रवृत्ताविष्यमाणायामप्रवर्त्तमानः प्रत्यवे. याद्विध्यतिक्रमात, मैवम् , स्वर्ग संसिषाधयिषोस्तत्राधिकारादन्यस्त्वनधिकृत एव क्षत्रियादिरिव वैश्यस्तोमे नासावकुर्वन् प्रत्यवायमर्हति, स्वर्गार्थी तु विधितः प्रवर्तते एव लिप्सया तु करणांशे प्रवृत्तिरिष्यमाणा क्रत्वर्थमितिकर्तव्यतांशमपि सैव स्पृशेत् क्रतूपकारकामो हि तत्र प्रवर्तते इत्येवं सर्वत्र विधिरुत्सीदेदेवेत्यलं प्रसङ्गेन । अपि च
प्रमाणान्तरसम्पर्कविकले भवतः कथम् ।
नियोगात्मनि वाक्याथें व्युत्पत्तिर्व्यवहारतः ।। ननूक्तमाकूतविशेषपूर्विकां चेष्टामात्मनिष्ठां दृष्टा परत्रापि तथाऽनुमानमि. त्ययुक्तमिदम् , स्वात्मन्यपि प्रेरणावगमनिमित्ताभावान ह्यात्मसंविदिव स्वप्र. काशा प्रेरणा, संवित्स्वप्रकाशेति चेत् तदुत्पादे तर्हि निमित्तं मृग्यम् , न ताव. च्छब्दस्तदानीं व्युत्पत्त्यभावात् स्वात्मनि प्रेरणावगमपूर्विकांहि चेष्टामुपलब्धवतः ते परत्र चेष्टादर्शनात्तदनुमान सेत्स्यति तन्निमित्तं लिङादिशब्द इति भोत्स्यते स पुनयुत्पत्तिकाले स्वात्मन्येव प्रेरणावगमः चिन्त्यो वर्तते, प्रमाणान्त. रात्तु तदवगम इति चेद् उत्तिष्ठासिद्धं शब्दकगोचरत्वम् ,
या चेयं पूर्वावधारितसुखसाधनभावे कपित्थादौ स्वात्मनि प्रवृत्तिरुपलब्धा तत्र प्रेरकत्वेन फलार्थिता निर्शाता नान्या का चित्रणा, तदुक्तं स्मरणादभिलाषेण व्यवहारः प्रवर्तते' इति, फलविषया हीच्छा तत्रस्वसंवेद्या ।