________________
प्रमाणप्रकरणम्
३२९
वेदे ऽपि यजेत स्वर्गकाम इति स्वर्गस्य साध्यत्वमवात्स्यामहे, साधो लेोके ऽपि कथमेतदवगतं नियोज्यसमर्पकपदवाच्यपर्यालोचनेन विधिवृत्तपरीक्षया वा।
पदार्थस्तावदेतानावेवङ्कामो ह्यसाविति ।। इदं तु सिद्ध्यते तस्मादिति तस्य न गोचरः ।। विधेरेष स्वभावश्चेदायुष्मन् साधु बुध्यसे । भाटैः किमपराद्धं ते नित्ये ऽपि फलवादिभिः ।। अधिकार्यनुपादेयविशेषणविशेषितः । जीवन्वा स्वर्गकामो वा समानः काम्यनित्ययाः ॥ विधिवीर्यस्वभावस्तु कृमेरपि तथाविधः ।
सप्रत्ययप्रेरकतां विधिोपैति निष्फलः ॥ ननु कामाधिकारे स्वर्गः श्रूयते नित्याधिकारे तु असौ न श्रूयते अश्रूयमाणः कस्यानुरोधेन कल्प्यते, विधेरैवेति ब्रमः, स्वर्गेन तेनापि किं करिष्यति यद्यसौ विधिना नापेक्ष्यते घृतकुल्या अस्य भवन्तीत्यादिवदश्रुतेो ऽपि चासौ विधिनाकृष्यते एव, तस्माद्विधिरत्र प्रमाणं न श्रवणाश्रवणे इति काम्यवन्नित्ये ऽपि फलमभ्युपगन्तव्यं न वा क चिदपीति ।
प्रतिषेधाधिकारे ऽपि विधिवृत्तपरीक्षया ।
एवं नरकपातादिफलयोगी न दुर्भणः ।। येन हि दुर्विषहक्लेशद्वेषकलुषितमनसा ब्राह्मणहननं सुखसाधनमिति कर्त्तव्यमिति गृहीतं निरर्गलरागरसिकेन सुरापानं सुखसाधनमिति गृहीतं स ततो विधिना वार्यते यदि तदसुखसाधनमिति ज्ञाप्यते, तस्मानित्येषु प्रत्यवायपरि. हार इव उपात्तदुरितक्षय एव वा प्रतिषिध्यमानेषु कर्मसु नरकपातः फलमि. त्यभ्युपगमनीयम्, इतरथा ह्यानर्थविवेको न सिद्ध्यति ।।
एवं च ब्रह्महत्यादेरपि नैवास्त्यधर्मता। किं पुनः श्येनवज्रादेरित्यर्थग्रहणं वृथा ॥ करणांशे ऽपि लिप्सातः प्रवृत्तियद्यपेयते । इतिकर्तव्यतांशे तु शास्त्राद्यदि तदप्यसत् ॥ न हि तत्करणं शुद्धं स्वफलायोपकल्पते ।
सेतिकर्तव्यताकं हि करणं करणं विदुः ।। अवान्तरविभाग एवैष करणेतिकर्तव्यतालक्षण: सकलाङ्गोपवृंहितस्वरूपस्तु भावार्थः काम्यमानोपायतां प्रतिपद्यते नैकेनाप्यंशेन न्यूनः, अत एव का. म्यानां कर्मणां सर्वाङ्गोपसंहारेण प्रयोगमिच्छन्ति, तस्मात्करणवदितिकर्तव्यतायामपि लिप्सात एव प्रवृत्तिः स्यात् ।
न्या