________________
न्यायमअयाम्
नन्वेवं तस्य लिप्सार्थलक्षणेत्यभ्यधायि यत् ।
श्येनादीनामधर्मत्वं वर्णितं तद्विरुध्यते ॥ अथ पूर्व फलसिद्धिः ततो नियोमसिद्धिः तर्हि फलस्य तदानीं दर्शनं भवे. सिद्धत्वात् ।
न च भावार्थवेलायां पुत्रपश्वादि दृश्यते ।
अदृश्यमानमप्येतत्सिद्धमित्यतिविस्मयः ॥ अतश्च यत्कश्चिदुच्यते स्वर्गसिद्धिमवान्तरव्यापारीकृत्य नियोगमनेन मा. वार्थः सम्पादयतीति तदप्यपास्तम् , अवान्तरस्य व्यापारस्य ज्वलनादेरिव प्र. धानव्यापारात्पूर्व दर्शनप्रसङ्गादिति, अथोच्यते स्वर्गकामस्य स्वर्ग साधयि. तुमुद्यच्छतो यागेन योगः सम्पाद्यः श्रूयते स च चेत्सम्पन्नः शब्दवृत्तेन फलमपि सम्पन्नमेव, आनुभाविकी तु स्वर्गसिद्धिः कालान्तरे भविष्यतीति, एतदयुक्तम् , सिद्धिद्वयानुपलम्भान ह्येका शाब्दी सिद्धिरन्या चानुभाविकी नामेति कालान्तरे चानुभाविकी सिद्धिः कुतस्त्येति चिन्त्यम् ।
___ कालान्तरे च भावार्थः क्षणिकत्वान्न विद्यते ।
शक्त्यादिरूपं चापूर्व न भवद्भिरुपेयते ॥ भवन्तो ह्यपूर्वशब्देन धर्मशब्देन च नियोगमेवापचरन्ति न च नियोगः शक्तिवदात्मसंस्कारवद्वा कालान्तरस्थायी भवति स हि प्रेरणात्मकः कार्यरूपो वा नोभयथा ऽपि स्थैर्यमवलम्बते, तत्रतत्स्याद् नियोगसिद्धिराक्षिप्तफलसिद्धिर्भवति विषयाद्यनुबन्धावच्छिन्नो ह्यसावेवानुष्ठेयः तत्र यथा तेन तेन कार. कचक्रेण क्रियाकलापेन विना सम्पत्तिमलभमानः तत्तदाक्षिपति तथा अधिकारानुबन्धवन्ध्यो ऽपि नासो सम्पत्तिमधिगच्छतीति तमप्याक्षिपति, यश्चायम. धिकारानुबन्धः स एवायं फलाक्षेपो न तु विधेः फलापेक्षितेत्युक्तम् , एतदयुक्तम् ।
यो हि येन विना कामं न सिद्ध्येत्स तमाक्षिपेत् ।
नियोज्यमात्राक्षेपे तु नियोगो न फलात्मकः॥ नियोज्यश्चण्डालस्पर्शेनेव स्वर्गकामनोत्पादमात्रेण नियोज्यतां प्रतिपन्न इति कथं नियोज्याक्षेप एव फलाक्षेपः।।
ननु च स्वर्गकामो ऽत्र नियोज्यो नान्यथा भवेत् ।
यदि स्वर्गस्य सम्पत्तिं नाधिगच्छेत्स्वकर्मणः ।। नैतदेवम्
नरेच्छामात्रमेवेदं न शब्दस्त्वियति क्षमः ।
नियोज्यः स्वर्गकामो हि भवेज्जीवनवानिव ।। ननु लोके काम्यमानस्य साध्यत्वं दृष्टं हरीतकी भक्षयेदारोग्यकामस्तेन