________________
प्रमाणप्रकरणम्
३२७
तत्रैतत्स्यात् , लेोके भवतु फलार्थित्वात्प्रवर्तनमाराधयिष्यते प्रेरकाशयानु. वर्तने वा तस्य पारम्पर्येण फलहेतुत्वात् , वेदे तु वक्तुरभावात्प्रेरणावगमादेव प्रवृत्तिरुन्मत्तवाक्यादपि लिङादियुक्तान प्रेरणावगमो नास्ति भवन्नपि फलादर्श नादुपेक्ष्यते उन्मत्त एवं प्रलपतीति, वेदे पुनर्यजेतेत्यत्र प्रेरणाऽवगमात्परित्या. गकारणाभावात्तत एव प्रवर्तनम् , प्रवर्तनाऽभावे ऽपि न वेदस्याप्रामाण्यम् , प्रमाणव्यापारस्य तेन निवेतितत्वादित्युक्तम् , उच्यते वेदे ऽपि वक्ता ऽस्ति तदाशयवशेन तत्रापि फलार्थिनां प्रवर्तनमिति सम्भवदपीदमुत्तरं नाचक्ष्महे कथा. न्तरप्रसङ्गात् किं त्विदं ब्रूमः, प्रेषणावगमादेव प्रवृत्तिसिद्धौ स्वर्गकामपदं बाद. रिवदन्यथा व्याख्यायताम् , अधिकारानुबन्धाभिधाने पुरुषविशेषणमात्रमेतद्भवतु किं स्वर्गसाध्यत्वकल्पनया, विशेषणत्वमेवान्यथा न निर्वहतीति चेद् आयातं तहि फलस्य साध्यत्वं तच्चेत्साध्यत्वेनावगम्यते तस्यैव सामर्थ्यसिद्धं लोकानुगुणमव्यभिचारि च प्रवर्तकत्वमुत्सृज्य न प्रेरणावगमस्य तद्वक्तुमर्हसीति ।
नियोगादथ निष्पत्तिः फलस्येत्यभिधीयते ।
फलं प्रत्यङ्गभूतत्वादवाक्यार्थत्वमापतेत् ॥ ननु विध्यर्थो न भावार्थवत्फले करणं येनास्य तदङ्गत्वं स्यात् , आक्षेप कत्वात्त तस्य फलार्थत्वमुच्यते प्रयोक्तृत्वं हि तस्य निजं रूपं यद्यवं भावार्थ एव साध्यो भवतु विध्यर्थस्य तु किमनुष्ठेयत्वमुच्यते, सो ऽपि भावार्थसिद्धया सम्पद्यते कृतो मया स्वामिनियोग इति व्यवहारादिति चेत् ।
भावार्था तर्हि निष्पत्तिनियोगस्य फलस्य च । इत्येकत्र पदग्रामे वाक्यार्थद्वयमापतेत् ॥ किं चान्विताभिधानेन विषयत्वावधारणात् । नियोगस्यैव भावार्थनिष्पाद्यत्वं प्रतीयते ॥ स तु भावार्थतः सिद्धो फलाय यदि कल्प्यते। परार्थत्वादवाक्यार्थो भवेदित्युपवर्णितम् ॥ भावार्थस्तु द्वयं कुर्याद्युगपद्वा क्रमेण वा ।
युगपन्नास्य सामध्ये समत्वं च द्वयोभवेत् ॥ नियोगश्च शब्दैकगोचरत्वान्मा दर्शि फलं तु स्वर्गपश्वादि तेन सह नि. पाद्यमानं किमिति न गृह्यते, क्रमपक्षे पूर्व वा नियोगः पश्चात्फलं पूर्व वा फलं पश्चाद्वा नियोगः सिद्धयेदिति, यदि पूर्व नियोगः तदा नियोगस्यासिद्धेनिविषयाया अनुपपत्तेः करणांशे ऽपि धीप्रवृत्तिः स्यात् ।
यथा नियोगनिष्पत्तिः प्रयाजादिकृतेन तु ।
तत्र प्रवृत्तिः शास्त्रीया भावार्थे ऽपि तथा भवेत् ॥ इष्यते इति चेत् ।