________________
३२६
न्यायमञ्जर्याम्
तस्य द्वादशलक्षण्यां तत्तद्रूपं प्रकाशितम् ।। तन्नेह लिख्यते ऽस्माभिम्रन्थगौरवभीरुभिः ।। दिङ्मानं त्वेतदाख्यायि नियोगस्य यथागमम् । अमुष्मिन्नपि वाक्याथें विवदन्ते मनीषिणः ।
फलज्ञानस्यैव प्रवर्तकत्वनिरूपणम् - लिङादेरवगम्यमानः कार्यरूपः प्रेरणात्मा च वाक्यार्थी नियोग इत्युक्तम् , न चासवेवंरूपो ऽपि परिदृश्यमानभावनादिव्यतिरिक्तो ऽवगम्यते ।
क्रियैव तावत्कार्यात्मा प्रेरणात्मा फलार्थिता ।
प्रतीयते ततोऽन्यस्तु नियोगो नेभियात्मकः ॥ नन्वन्य एव क्रियाकर्तृसम्बन्धात्प्रेष्यप्रषसम्बन्धो दर्शितः, अयुक्तो ऽसौ ।
कुर्यादित्यादिशब्देभ्यः क्रियादिव्यतिरेकिणः ।
नार्थान्तरस्य संवित्तिः कस्य चित्प्रेरणात्मनः ॥ किमिदानी करोतीति कुर्यादित्यादि च तुल्ये एते प्रतिपत्ती, अभिनवमिदं शब्दव्युत्पत्तिमत्वमायुष्मतः न बमो न भिन्ने एते प्रतिपत्ती इति करोतीति प्रवृ. त्तक्रिय उच्यते वर्तमानकालावच्छिन्नश्च किंत्वसौ प्रेषस्ततो ऽवगम्यमानो ऽपि प्रेरको न भवति न च कार्य इति ब्रूमः ।
ननु प्रेरकत्वेनैवावगम्यमानः कथं प्रेरको न भवेद् एतदेवास्य प्रेषत्वं यत्प्रेरकत्वम् , सत्यम् प्रेरकत्वेनैवासौ गम्यते न त्वसौ तथा भवति व्यवहार. मात्रमेतद् राजाज्ञां करोमीति कार्यत्वमस्य क्रियामात्रं राजाज्ञां करोमीति ।
आज्ञा हि नाम नैवान्यसम्पाद्यत्वेन गम्यते । नानुष्ठातुरियं बुद्धिराज्ञा सम्पाद्यतामिति ।। एवं हि यस्य कस्यापि प्रवर्तेत स आज्ञया । न चेह बालोन्मत्तादिवचनाद्यत्नवर्जितात् ।। सत्यपि प्रेरणाज्ञाने प्रवर्तन्ते सचेतसः । भयं नाशयते यस्मात्फलं वा ऽपि समीहितम् ।। तथाविधस्य राज्ञो ऽपि नाज्ञानुष्ठीयते जनैः । वर्तमानापदेशे ऽपि फलं यत्रावगम्यते ॥ तत्र प्रवर्तते लोको लिङादिष्वतेष्वपि । भवत्यारोग्यसम्पत्ति जानस्य हरीतकीम् ।। तत्कामो भक्षयेच्चेति को विशेषः प्रवर्तने । अन्वयव्यतिरेकाभ्यां तदेवमनुमन्यते ॥ प्रेरकत्वं फलस्यैव न नियोगात्मनः पुनः ।