________________
प्रमाणप्रकरणम्
३२५
नियोगस्य चातुर्विध्यम्-- स च प्रतीतिभेदपर्यालोचनया चतुरवस्थ उच्यते उत्पत्तिविधिरग्निहोत्रं जुहोतीति अग्निहोत्राख्यकर्मस्वरूपोत्पादव्यतिरेकेणार्थान्तरानवगमात् ,
विनियोगविधिः दध्ना जुहोतीति पयसा जुहोतीति उत्पत्तिविधितः प्रति. पन्ने भावेऽर्थे तत्र दध्यादिगुणविनियोगाऽवगमात, ___ अधिकारविधिः अग्निहोत्रं जुहुयात् स्वर्गकाम इति निाते कर्मणि तत्राधिकृतस्य पुंसस्ततोऽवगमात्
प्रयोगविधिस्तु क्रमपर्यन्तं प्रयोगे पदार्थानामवगम इति अयं चाधिकारविधेरेव व्यापारविशेष इति तदेवास्योदाहरणम् अग्निहोत्रं जुहुयात्स्वर्गकाम इति,
कचिदेकस्मिन्नेव वाक्ये रूपचतुष्टयं विधेरवगम्यते न तत्र पृथगुदाहरणम. पेक्ष्यते यथा एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेति,
अन्यान्यपि नियोगस्य रूपाणि व्यापारभेदादवगम्यन्ते, स हि भावार्थसिद्ध्यर्थ तत्समर्थमर्थमाक्षिपतीति तत्प्रयोजक उच्यते, यथा माणवकस्थस्याध्ययनस्याचार्यकरणविधिः,
नियोगस्य रूपान्तराणिक्क चिदन्याक्षिप्ते वस्तुनि लब्धे सति तत्राप्रयोजको विधिर्भवति यथा क्रयनियुक्तयैकहायन्या लाभे सति न पादपांसुग्रहणार्थमन्यामेकहायनीमाक्षिपति विधिरिति, प्रकरणपरिपठितपदार्थपटनपरिग्रहश्च ग्राहक इति विधिरुच्यते,
क चित्प्रकरणपरिपठितस्यापि तेनागृहीतस्य द्वादशोपसदादेः प्रकरणादुत्क प्रदर्शनादत एव नियोगगर्भो विनियोग इत्याचक्षते, ___ व चिद्विनियोजकश्रुत्यादिप्रमाणविरहेऽपि पश्वेकत्वाधुपादानं शेषीकुर्वन्नु पादायक इत्युच्यते पशुना यजेतेति विभक्त्या प्रातिपदिकार्थो विनियुक्तः तत्स्थ. मेकस्वम् उक्तमेव न विनियुक्तमेकेनेत्यश्रवणात् पशुरुपादीयमानो न सङ्ख्या. रहित उपादातुं शक्यते श्रुतसङ्ख्यापरित्यागकारणाभावाच्चैकत्वविशिष्ट: पशुरुपादीयते इत्युपादानशेषीकृतमेकत्वम् , वैकृतस्तु सौर्यादिविधिः प्राकृतमितिकर्तव्यताजातमाकर्षश्चोदक इत्युच्यते।
नियोगस्य वाक्यार्थत्वोपसंहारःतदिदमेकस्यैव मगवतो लिङर्थस्य प्रयोक्तृशक्तिखचितात्मनः प्रचुरव्यापारवैचित्र्यमुपदर्शितमित्यलमनया महामतिमानसविलासवत्या मीमांसार्थ. कथया सेोऽयमीरशी नियोगो वाक्यार्थः ।