________________
३२४
न्यायमञ्जर्याम्
वति सेयं नबुपहिते हन्तौ श्रुते हमननिवृत्तिर्गम्यते, यथा सिद्धरूपयनुप्रवेशे ऽपि न होमस्य साध्यमानावस्था निवत्तते तथा नयनुविद्धहन्त्वथोवगतो न पूर्वापरीभावबुद्धिनिवर्तते, न ह्यब्राह्मणवन्न हन्यादिति सिद्धरूपबुद्धिः, सोऽयं ह. नननिवृत्तिरूपः पूर्वापरीभूतोऽर्थो विधिविषयो भविष्यति, अथवा विभक्त्यर्थेन नसम्पत्स्यति शुद्धस्य लिङादेरर्थः प्रवर्तकः नयुपहितस्य तस्यार्थो निवर्तक इति शब्दशक्तिरेवैषा कोऽत्र पर्यनुयोज्यते इति ।
यत्त साक्षान्नयोऽनन्तरं विधिविभक्तिनोत्पद्यते तत्तस्याधातुत्वाद्धातोः परे तिङादयः प्रत्यया भवन्ति नान्यस्मादिति योग्यतया तु नबर्थेन सम्बन्धः, न च तत्रायमर्थोऽवतिष्ठते हननविधिर्नास्तीति किं तु नअपहितो विधिरौदास्ये पुरुषं नियुङ्क्ते तदवच्छेदकश्च हन्तिरन्यथा सर्वक्रियौदासीन्यं प्रतीयेतेत्यलमतिवि. मन निषेधविधेरपि सिद्धोऽनुबन्धद्वययोगः ।
एवं नियोगव्यापारे समाप्ते फलकल्पना। नृबुद्धिप्रभवैव स्यादतः सापेक्षता भवेत् ॥ कथं नरो निवर्तेत प्रत्यवायमयाद्विना । मा निवर्तिष्ट विधिना तावदुक्तं निवर्तनम् ।। प्रवृद्धतररागान्धः प्रत्यवायेऽपि कल्पिते । न निवर्तत इत्येवं किं विधेरप्रमाणता ।। फलं भवतु मा वा भूत्पुरुषोऽपि प्रवर्तताम् ।
मा प्रवतिष्ट वा स्वे तु नास्त्यर्थ खण्डना विधेः ।। प्रवर्तनावगमजनने हि विधिव्यापार इति असकृदुक्तम् , तत्र तस्य न किं चिद्वैकल्यम् ।
ननु विधेः फलापेक्षता नास्ति चेत्किं तहि प्रश्रयमाणफलेषु विश्वजिदादिषु स्वर्गादिफलं कल्प्यते, उच्यते अश्रूयमाणत्वादधिकारानुबन्धस्य निरधिकारस्य च विधेविधित्वानिर्वाहादधिकारानुबन्धः कल्यते सत्र सर्वान्प्रति अविशिष्टत्वात्स्वर्गकामः चोदनाशेषभावेन नियोज्यः कल्प्यते, न चेयं पौरुषी कल्पना श्रत्येकदेशः स इति हि तद्विदः, तदियमधिकारानुबन्धकल्पना न फलकल्पना इति सोऽयमनुबन्धद्वयावच्छिन्नो नियोगो वाक्यार्थः, ____ वाक्यर्थत्वं चास्य प्रधानत्वाद् अन्यो हि यज्यादिरर्थोऽवगम्यमानस्तदनुप्रवेशेन प्रतीयते गुणेो भवति, नियोगस्तु स्वमहिमाक्षिप्तदृष्टोपकारानेकक्रिया कारककलापोपबृंहितस्वरूपः प्रतीयते इति प्राधान्यमवलम्बते, कार्य चेत्प्रधानमुच्यते नियोग एव कार्यम् , फलं चेत्प्रधानमुच्यते तदपि नासिद्धम् , अपि तु साध्यं खाध्यत्वं चास्य नियोगाधीनमिति नियोग एव प्रधानम् , पुरुषस्तु नियोग्यमानत्वादप्रधाममिति, एवं नियोग एवं प्रधानत्वाद्वाक्यार्थः ।