________________
प्रमाण प्रकरणम्
निषेधविधिविषयनिरूपणम् -
नन्वेतावन्न विबुध्यामहे निषेधविधेः को विषय इति, भावार्थाः कर्मशब्दा ये तेभ्यः क्रिया प्रतीयते इति (१) स्थिते नञर्थस्तावत्पूर्वापरीभूतत्वाभावान्न विधे विषयः, अनन्विताभिधानाच्च न हि नव्यो ऽनन्तरं लिविभक्तिः श्रयते ऽपि तु हन्तेः, हननमपि न विधेर्विषयः तस्य धर्मत्वप्रसङ्गात्, न प्रयोगस्य वैयर्थ्यप्रसक्तेईनने च पुरुषस्य स्वतः प्रवृत्तेर्नव्विशिष्टोऽपि न हन्त्यर्थो ऽस्य विषयः तयेोर्विशेषणविशेष्यभावाभावात् ।
३२३
युक्तं दध्ना जुहोतीति होमे दध्यनुरक्तता । हन्तेः स्वरूपनाशात्तु न नञर्थानुरक्तता ॥
पुरुषप्रयत्नाऽपि न केवलेा विधेर्विषयः स्वतः सिद्धत्वान्नापि ननर्थानुरक्तो हन्तिवत्तत्रापि नञर्थस्य विशेषणत्वानुपपत्तेः,
अथायमब्राह्मणादिन्यायेन हन्तौ पर्युदस्ते भावार्थान्तरे नियोगः कल्प्यते, न हन्यादिति कोऽर्थः अन्यत्किमपि कुर्यादिति तर्हि किं तद्भावान्तरमिति न विचारयितुं शक्यते, यत्किं चिदिति चेन्न तस्य स्वतः सिद्धत्वेन विध्यानर्थक्यात्, अवश्यं जीवन्पुमानिक चित्करोति पठति गच्छवि भुङ्क्ते च,
अथ विषयांशं परिहृत्य प्रमाणांशे नव् नित्रिशते स हि प्रवर्तमानं पुमांसं रुद्धि यद्वन्यात्तन्नेति,
तदप्यनुपपन्नम् अन्विताभिधानेन विधिविभक्तेर्हन्तिनावरुद्धत्वात्, प्रेरणशक्तिस्वभावा विधिः स्थितः यस्तु निषेधात्मा नञ् पार्श्वे स्थितः तत्र विधिः संक्रामति, संक्रान्तावपि नमश्च विधेश्च सम्बन्धे सति विधेस्स्वरूपनाशोऽवगम्यते, स्वभावा ह्येष ननो यदयं येन येन सम्बध्यते तस्य तस्याभावं बोधयतीति, अतो विधिसम्बन्धे न इष्यमाणे एतावान्वाक्यार्थो ऽवतिष्ठते हननविधिर्ना - स्तीति, ततश्च हननस्य विधित्वं च स्यात्,
अत्रोच्यते दध्ना जुहेोतीति होमस्य वचनान्तरचोदितत्वाद्विधिशक्तिरुपपदं संक्रामतीति यथावर्णितमेवमिहापि हनने स्वतः प्रवृत्तत्वेन विधिवैफ. ल्यान्ननश्च श्रूयमाणस्यानर्थक्यप्रसङ्गाद् विधायिका शक्तिः नञर्थमेव स्पृशति इति किं नेष्यते ।
ननक्तमत्र भावार्थ: कर्मशब्द इति तत्र दृध्यनुरक्ता होम एव विधीयते इति फलता विधिविहितं भवति न प्रमाणतः इह तु ननस्तदुपमर्दस्वभावत्वान्न केन चित्संसर्गों दध्यादेरिव कल्पते, मैवम निवृत्तिमेव कुर्वन्न विशेषणं विशेषणीभ
( १ ) " भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते" जै० अ० २ पा० १ सू० १ ।