________________
३२२
न्यायमअर्याम्
प्रवर्त्तकम्, अतएवाग्नीषोमीय हिंसाया नाधर्मत्वम्, न हिंस्यात्सर्वभूतानीति निषेधः सामान्यशास्त्रम्, सामान्यशास्त्रं च विशेषशास्त्र क्रोडीकृत विषयपरिहारेण प्रवर्त्तते इति अग्नीषोमीयहिंसायाः शास्त्रीयत्वान्न निषेधविधिरनर्थतां बोधयेदिति,
ननु श्येनेsपि शास्त्रीया प्रवृत्तिः प्रवर्तकत्वं हि विधेस्स्वरूपं प्रमाणान्तरविलक्षणम, नान्वयव्यतिरेकवत्साध्यसाधनप्रतीतिमात्रपर्यन्तो हि विधिव्यापारो भवितुमर्हति इति सर्वत्र विधेः प्रयोक्तृत्वानपायाद् एवमेव चेयं प्रवृत्तिः श्येनेन यजेतेति, उच्यते प्रवर्त्तितो ऽहमिति ज्ञानजननं विधेः प्रेरकत्वं तत्सत्यं सर्वत्र तुल्यं करणे श्येन इतिकर्त्तव्यतायामग्नाषोमीये च, बाह्ये तु प्रवृत्तिलक्षणे भौतिके व्यापारे यत्र लिप्सादि प्रवर्तकान्तरमस्ति तत्र भवन्त्यपि विधेः प्रयोक्तृशक्तिरुदास्ते पशुपुरोडाशप्रयाजवत्, तत्रोदासीने विधौ निषेधशास्त्रमवतरति न हिंस्यादिति, यदि तु सर्वत्र प्रयोक्तृशक्तिरनुदासीना भवेत्तदा ज्योतिष्टोमान्न विशिष्यते श्येनं शास्त्रीयायां प्रवृत्तावग्नीषोमीयमिव निषेधशास्त्रस्यानवकाशात्, ज्योतिष्टोमे ऽनुल्लङ्घितनिषेधो ऽधिकारी स्वर्गस्यानिषिद्धत्वात् श्येने तु हिंसायाः प्रतिषिद्धत्वादुत्कान्तनिषेधो ऽधिकारीति चेत, मैवम् अधिकारिदशायामपि भवन्मते विधेः प्रयोक्तृत्वानपायात्, न निषेधशास्त्रमवकाशं लभते इति श्येने ऽपि नावधीरितनिषेधो ऽधिकारी स्यात् ।
ननु न विधिः फले प्रयोज्यं प्रेरयति फलं कुर्विति कर्मणि त्वेनं प्रवर्तयति यजस्वेति तेनाधिकारिदशायामप्रतिहतो निषेधशास्त्रावकाश:, आयुष्मन्नम्मत्पक्षमास्थितोऽसि, फले चेन्न प्रवर्त्तयति विधिः पुरुषं फलार्थित्वादेवैनमुपाये प्रवर्तमानं तत्रापि न प्रेरयेत्, उपायानभिज्ञस्य तूपायमेव दर्शयेत् यावदप्राप्तं हि विधेः विषयः, तदुक्तम जानात्येवासौ मयैतत्कर्तव्यमुपायं तु न वेदेति, प्रतीतिर पीयमीदृशी अभिचरन्यजेतेति, यदि त्वशास्त्रीयोपायो न वैरिणं हन्तु मुपायः श्येनेन जहि श्येनस्तवोपाय इत्यर्थः तदलमतिप्रसङ्गेन कामाधिकारेषु तावन्न फलाकाङ्क्षो विधिः फलं त्वधिकारे हेतुरिति स्थितम् ।
प्रत्यवायानपेक्षं निषेधविधेर्निवर्तकत्वम्
प्रतिषेधाधिकारे ऽपि प्रत्यवायो न कल्पते । निषेध्यविषयादेव लब्धत्वादधिकारिणः ॥ तत्रासौ कल्प्यमानो ऽपि नरकादिफलेादयः । अवैधत्वं प्रपद्येत न ह्याकाङ्क्षेदृशी विधेः ॥ विधेरपेक्षे द्वे एव नियोज्यविषयौ प्रात । तत्पूरणेन तृप्तस्तु न वान्छति ततो ऽधिकम् ॥ नियोज्यस्तावदेतावान्क्रुद्धो ऽरिहननेोद्यतः । विषयस्तन्निवृत्तिश्च नियोगो यत्र गम्यते ॥