________________
प्रमाणप्रकरणम् ननु राजाबाया करोमीत्यपि व्यपदेशो दृश्यते स चानुष्ठेय मेघाज्ञां दर्शयवि, मैवम् तत्राप्यावानुष्ठेया प्रेषणामिप्रायेण तृतीयानिर्देश इत्येवं केचित् ।
नियोगस्यार्थ प्रेरकत्वम् - अन्ये तु शाब्दं कार्यत्वं नियोगस्य प्रेरकत्वं त्वर्थादित्याचक्षते, अनुष्ठेयता हि तस्य निजं रूपं स्वसिद्धये स तु नियोज्यं नियुञ्जानः प्रेरक इत्युच्यते, तदिदं कार्यत्वमपरित्यक्तप्रेरकभावमस्वावगम्यते प्रेरकत्वं चापरित्यक्तकार्यभावमित्यन्यतरदन शाब्दं रूपमिति न भाट्टरिवास्माभिः प्रत्यये गुरुभोर आरोपितः,
___फलानपेक्षं विधेः प्रवर्तकत्वम् -- ___ स चायं नियोगः प्रतीयमानो यजेत स्वर्गकाम इत्यनुबन्धद्वयावच्छिन्नः प्रती. यते यज्यादिना ऽस्य विषयानुबन्धो धातुनोच्यते, स्वर्गकाम इत्यधिकारानुबन्धः पदान्तरेणाप्यते, तत्र च स्वगकामस्येवमधिकारो निवहति यदि भावार्थस्य स्वर्ग प्रति साधनत्वमवगम्यते एवं तहि स्वर्गकामेनैवासौ कृतो भवत्येवं स्वर्गकामपदान्वये प्राक्तन एव मागो ऽनुमन्तव्यः, न पुनः स्वर्गादिफलप्रदर्शनपूर्वक विधेः प्रवर्तकत्वमस्वातन्त्र्यप्रसङ्गात् , न हीदशं शास्त्रस्य दैन्यं यत्फलं विना पुंसः प्रवर्त्तयितुं न शक्नोति अन्यथा यावज्जीवं यजेतेत्यादावप्रवर्तकं शास्त्रं स्यात् , किं यावज्जीवमित्यादयश्चोदनाः फलशून्या एव, ओमित्युच्यते न हि विधिः फलमाकाक्षत्यपि तु नियोज्यं विषयं कस्य नियोगः कुत्र नियोग इति ते एते उभे अपि आकाङ्क्षे परिपूर्णे तत्र जीवतो नियोगो यागे च नियोग इति अतः परं फलकल्पनं पुरुषबुद्धिप्रभवं भवति न शास्त्रीयम् , कामाधिकारे तु नियोज्यतैवान्यथा स्वर्गकामस्य नोपपद्यते इति स्वर्गस्य साध्यत्वमभ्युपगतं न पुनविधेः फलार्थत्वादत एव न तत्र वैधी प्रवृत्तिलिप्सयैव प्रवृत्तत्वात् , आह च तस्य लिप्सार्थलक्षणेति साध्यसाधनप्रतिपादनपयवसितो हि तत्र विधिव्यापारो न प्रयोगपर्यवसित इति,
अत एव श्येनादेरधर्मत्वात् तत्र ह्यभिचरनिति शत्रा शत्रं वैदिकेनो. पायेन जिघांसुरधिकारी दर्शितः तस्य न तत्र शास्त्रं प्रवर्तकं जानात्येवासौ मयैतत्कर्त्तव्यमुपायं तु न वेदेत्येवमुपायमात्रमस्योपदिश्यते श्येनं कुर्विति न विधिः प्रभवति जिघांसयैव तत्र प्रवृत्तत्वात् , अतः श्येनादेरधर्मत्वात्तद्व्युदासार्थमर्थपदोपादानम् , चोदनालक्षणो ऽर्थो धर्म इति,
कामाधिकारेष्वितिकर्तव्यतांशे शास्त्रीया प्रवृत्तिः, यथोक्तं "क्रत्वों हि शास्त्रादवगम्यते” इति भावार्थमात्रस्य हि करणत्वमवगतमितिकर्तव्यतांशस्तु न करणत्वावगतिवेलायामुपनिपतित इति तत्र लिप्साया अभावाच्छास्त्रमेव
४१ श्या०