________________
३२०
न्यायमार्याम्
शृण्वन्वृद्धः चेष्टमाना दृश्यते चेष्टा च स्वात्मनि प्रवर्त्तिका ऽवगमपूर्विका दृष्टा प्रत्यक्ष दृष्टे चाम्रादौ सुखसाधनतया अन्वयव्यतिरेकाभ्यामत्रगते तदनुस्मरणास्प्रवर्तमानः कस्मिंश्चिदात्माकूते समुपजाते सति भौतिक व्यापारमारभते, स चात्मधर्म आत्मेव स्वसंवेद्यः अहम्प्रत्ययगम्यो ह्यात्मा नासौ परस्मै दर्शयितुं शक्यते न च चर्चयितुं शक्यते एतावता नानुभूयते इति शक्यते वक्तुं परोऽपि ह्येन महम्प्रत्ययेनानुभवत्येव, तथाऽयमपि भौतिकव्यापारहेतुरात्माकृतविशेषो न प्रमाणान्तरवेद्यो भवति न च न वेद्यते तत्संवेदने सति चेष्टा यद्वन्तं दृष्ट्वा तस्यापिताप्रेराऽवगमेोऽनुमीयते
स च शब्दान्तरश्रवणे सत्यदृश्यमानो लिङादिश्रवणे च सति दृश्यमानस्तदर्थ एवेत्यन्वयव्यतिरेकाभ्यामवगम्यते इतीयतीयं व्युत्पत्तिः, तदेतदात्मप्रत्यक्षं लिङादिशब्दश्रवणे सति प्रेरणावगतिः भवति प्रथमश्रुताच्च लिङादेरसौ न भवति न च प्रमाणान्तरेण सेोऽर्थो दर्शयितुं शक्यते कुर्यादित्यस्यार्थः कुर्यादित्यनेनैव प्रतिपाद्यते न प्रमाणान्तरेणेत्येवं व्युत्पत्तौ सम्भवन्त्यामपि यैरगृहीतसम्बन्ध एव लिङादिः स्वरूपसामर्थ्येनैव प्रेरक इष्यते ते ऽत्यन्तभीरव इत्युपेक्षणीयाः ।
ननु यदि लिङादिव्यतिरेकेण नान्यतो नियोगो ऽवगम्यते कथमसौ नियाशब्दात्प्रतीयते कथं वा नियोगशब्दस्य नाम्नोऽप्यर्थः प्रमाणान्तरागोचरः स्यात्, अयि साधो न नियोगो निपूर्वेण युजिना घञन्तेन बोधयितुं शक्यते व्यवहारमात्रमेतत्स्वरूपमाख्यातुमाश्रीरते यथा तु यजेतेत्येवमादिभ्यः शब्देभ्यः सोऽवगम्यते तथा नान्यत इत्यत एव न प्रमाणान्तरगोचरो धर्म इत्याहुः, लि
धर्मो हि नियोगो वाक्यार्थः स धर्म एव स च न प्रमाणान्तरगभ्य इति न च लिर्थ: प्रेरणात्मकेो ऽयं व्यापारः कार्यमाचष्टे यो धर्मः स एव च वाक्यार्थी युक्तः, कार्येऽर्थे वेदस्य प्रामाण्यमिति हि मीमांसकाः,
नियोगस्य शाब्दं प्रेरकत्वम्-
तस्मात्पुनरपि भाट्टपक्षवद् द्वयमापतति प्रेरकश्च विधिः कार्यरूपस्चानुष्ठेयोऽर्थ इति, सुखशयितो निरनुसन्धान इवायुष्मानेवं व्यवहरति न ह्यन्यः प्रेरक ऽन्यश्चानुष्ठेय इत्युक्तम्, नियोग एव प्रेरको नियोग एव चानुष्ठेयः, कथमस्य द्वैरूप्यमन्ये वदन्तीति चेद्, मैवम् प्रेरकत्वमेव शब्दार्थः आर्थं तु कार्यत्वम्, यतो विधिरनुष्ठेयतयाऽवगम्यते आचार्याज्ञां करोमि राजाज्ञां करोमीति, किमर्थं तर्हि विषयानुष्ठानमिति चेद न ह्याज्ञा घटादिवत्स्वरूपेण कर्तुं शक्याऽपि तु विषयद्वारकं तत्सम्पादनं कमण्डुलं बिभृहीत्याचार्येणाज्ञतः कमण्डुलं भृत्वाऽऽचार्याज्ञां कृतां मन्यते कटकं गच्छेति राज्ञाऽऽज्ञप्तः कटकं गत्वा राजाज्ञां कृतां मन्यते सोऽयं नियोग एवानुष्ठेयः ।