SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् ३१९ कत्वं विधेः प्रवर्तकत्वम् स एष प्रवर्तनं ज्ञापयति न करोतीत्यन्य एवायं क्रि. याकर्तृसम्बन्धात्प्रेषनैष्यसम्बन्धः ।। ___ननु ज्ञानमपि क्रियैव तत्करणे च पुनरपि स एवायं क्रियाकर्तृसम्बन्धः, मैवम , कारकज्ञापकयोéदस्य सुप्रसिद्धत्वात , इह च योऽयं यागपुरुषयोः क्रि. याकतृसम्बन्धः अतोऽन्यं प्रैषप्रैष्यसम्बन्धमुपदर्शयितुं प्रवृत्ताः स्मः स ततो विलक्षणः प्रदर्शित एव , वैलक्षण्येऽपि तस्य यथा कथं चित्तन्नाम क्रियमाणं न वारयामः, भवत्वयमन्यः प्रैषप्रैष्यसम्बन्धः स तु प्रथममवगम्यते इत्येष कुतो निश्चयः, उक्तमत्र प्रेषिताऽहमिति हि विदित्वा क्रियायां प्रवर्त्तते आचार्यचोदितः करोमीति हि दृश्यते यजेतेति ते नियुक्तोऽहमिति प्रथममवगच्छति ततो य. जते, तेनायमाद्यः सम्बन्धः पाश्चात्त्यस्तु क्रियाकर्तृसम्बन्धः, तद्योऽयं लिडर्थः प्रथममवगम्यते प्रैषो नाम सा प्रेरणा स नियोगः स वाक्यार्थः, ___ ननु विधाविव निमन्त्रणादिषु लिङ्लोटावपि स्मर्येते एव, सत्यम् ते तु प्रेरणाया एव औपाधिका अवान्तरभेदाः, समहीनज्यायोविषयप्रयोगोपाधिनिबन्धन एष प्रेरणाध्येषणादिभेदव्यवहारः, प्रेषणा तु सर्वानुस्यूता ऽवगम्यते तदुक्तम् "प्रवत्तेकत्वं तु शब्दार्थः सर्वत्रापरित्यागात्" इति, पिजर्थलिङयप्रैषयोभिन्नत्वम् स चायं लोडादीनामर्थः प्रैषो णिजर्थविलक्षणः प्रतीयते । ननु प्रयोजकव्यापार णिज्विधीयते प्रयोजकव्यापारश्च प्रैषः प्रैषे च लोडा. दयो विधीयन्ते इति णिजर्थ एव लोडर्थः तथा च कुरु कुर्विति यो ब्रूते स का. रयतीत्युच्यते, न प्रतीतिभेदात् , अन्या हि करोतु कुर्यादिति प्रतीतिरन्या च कारयतीति प्रतीतिः, प्रयोजकव्यापारो हि णिजर्थः ज्ञापकव्यापारस्तु लिङर्थः, प्रवृत्तक्रियाविषयश्च प्रयोजकव्यापारो णिजर्थः इह तु तद्विपरीतः, तत्र हि कार्य पश्यतः प्रवर्तनमिह तु प्रवर्तितस्य कार्यदर्शन मिति महान्भेदः, तत्र यथा कुर्वन्तं कारयति तथैवेहापि प्रैषः प्रवर्तमान प्रेरयति नाप्रवर्तमान स्थावरमिति न हि वनस्पतिरुच्यते यजस्वेति, न स्थावरादेरयोग्यत्वात् ब्राह्मणादिस्तुः यः प्रेयते असावप्रवृत्तक्रिय एव, न हि यजमान एव यजेतेति चोद्यते किं तु अप्रवृत्तक्रिय एवेति सर्वथा णिजाद्विलक्षणा लिडर्थः, शब्दैकगोचरे नियोगे व्युत्पत्तिग्रहोपाय:आह भवत्वयं विलक्षणे ऽर्थः स तुप्रमाणान्तरानवगम्यश्चेत्कथं शब्दकगोचरे तत्र सम्बन्धव्युत्पत्तिः, उच्यते शब्दैकगोचरस्तु नियोगो व्युत्पत्तिश्च तत्र सूपपादेव, यो हि यजेत दद्याज्जुहुयादिति लिङादिभ्यो विधिः प्रतीयते कथमसौ लिङादीनामगम्य इष्येत, व्युत्पत्तिश्वास्य व्यवहारादवकल्पते गच्छाधीष्वेति
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy