SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३१८ न्यायमञ्जयाम् माषा इत्यादावदर्शनात् , किं च कस्यानुरोधेन द्वे भावने प्रत्ययवाच्ये इध्येत, उच्यते लिङ्गादिशब्दश्रवणे सति कायें च प्रेग्णायां च न द्विरुत्पद्यते मतिः, यद्येवमेक एव तादृशो ऽसौ लिङों भवतु तदेकत्वाञ्च न परस्परसमन्वयः चिन्तयिष्यते, न च प्रत्यये ऽप्यतिभार आरोपयिष्यते । नियोगस्य वाक्यार्थत्वम्नन्वेकस्यापि लिङर्थस्य यदि शब्दः कार्यत्वं प्रेरणां च ब्रवीति ततस्तद. वस्थ एवातिभारः, कश्चासावेकः कार्यात्मा प्रेरणात्मा च तस्यार्थः, उच्यते यो लिङादेः प्रत्ययादवशिष्यते यमभिवदतो न तस्यातिभारो यत्र न तद्वातिरे. केण प्रमाणान्तरं क्रमते स नियोगो नाम वाक्यार्थः, तथा हि शब्दव्यवहारतः शब्दानामर्थे व्युत्पत्तिरित्यत्र तावदविवादः, एवं व्यवहारे च वाक्यार्थ वाक्य . स्य व्युत्पत्तिर्वाक्येन सर्वत्र व्यवहारात , तत्र यजेतेत्यादितिङन्तपदयुक्तेषु वाक्येषु पदान्तराणामर्थः तावदास्ताम् , आख्यातार्थे ऽशवगते तदानुगुण्येनासो स्थास्यति, आख्यातस्य च यजतेत्येवमादेरथः परीक्ष्यमाणः प्रेरणात्मक एवावतिष्ठते यतः पदान्तरसन्निधाने सत्यपि न प्रेरणाबुद्धिरुपजायते आख्या तपदश्रवणे सति सा जायते तस्मात्तस्यैव प्रेरणात्मको ऽर्थः, तत्रापि तु जुहो. त्यादिधात्वन्तरोपजननापायपोलोचनया धातास्तत्प्रतीतौ व्यभिचारात्प्रत्ययस्य चाव्यभिचारात्तस्यैव सो ऽर्थ इति शस्यते, कः पुनरसावर्थः यस्मिन्सति नियुक्तो ऽहमत्रेति प्रतिपद्यते पुरुषः सो ऽसावर्थ एव विधिरित्युच्यते, विधी हि लिङादिप्रत्ययं स्मरति पाणिनिः न धात्वर्थे यागादो न कर्तृव्यापारे भाव. नायां विधिश्च नाम प्रेरणात्मक एव, अत एव वर्तमानापदेशिकाख्यातजानि. तप्रतीतिविलक्षणेयं प्रतीतिर्यजेतेति, अत्र हि प्रैष्यप्रैषयोः सम्बन्धो ऽवगम्यते, किमन्यश्चात्र क्रियाकतसम्बन्धी नावगम्यते, न ब्रूमः नावगम्यते इति कि तु प्रेष्यप्रैपलक्षणोऽपि सम्बन्धःप्रथमम वगम्यते, प्रेषितो हि क्रियां कतुमुद्यच्छतीति, ननु क्रियासम्बन्धितयैवासौ प्रेष्यते यजतां भवानिति सत्यम् क्रियास. म्बन्धितयैव प्रेष्यते प्रेष्यते तु सः प्रेष्यते चेदयमन्यस्तहि सम्बन्धः क्रियास. म्बन्धात्तूभयसम्बन्धितामस्य राजगवीक्षीरवदवगमिष्यामः, यथा गौ राज्ञा च सम्बध्यते क्षीरेण च या राजसम्बन्धिनो सा क्षीरसम्बन्धिनी या क्षीरसम्ब. धिनी सा राजसम्बन्धिनी एवमिहापि पुरुषः प्रेषितेन च सम्भन्स्यते क्रियया च, यः प्रेष्यते स करोति अथ यः करोति प्रेष्यते स इति, ननु नेदमुभयं भवति प्रषो ऽपि क्रियैव प्रवर्त्तनं हि कुर्वन्प्रवर्तयतीत्युच्यते सो ऽयं क्रियासम्बन्ध एव भवति न ततो ऽन्यः प्रेष्यप्रैषसम्बन्ध इति, स्यादेतदेवं यदि वाग्वादिवत् प्रवर्तने कर्ता लिङर्थस्स्यात्परितो ऽहमत्रांत तु ज्ञानजन
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy