________________
प्रमाणप्रकरणम्
३१७ भावा तथा प्रथमपदज्ञानात्प्रभति आ निराकाङ्क्षवाक्यार्थपरिच्छेदादेकवेयं शाब्दी प्रमितिः अाह च
"पदात्प्रभृति या चैषा प्रज्ञा ज्ञातुर्विजम्भते । ___ पुष्पिता सा पदार्थषु वाक्यार्थषु फलिष्यति" ।। इति कृतमतिविस्तरेण,
सोऽयं वाक्यार्थः-भावनानामधेयः कर्तृव्यापारः, स्वर्गयागादिरर्थः, यस्तु व्यापारः प्रेषणरूपो लिङादेवाच्यः कार्यो वा तं विधि सङ्गिरन्ते ।
शब्दभावनाया वाक्यार्थत्वम्-- तदेतदननुमन्यमाना अन्ये प्रचक्षते योसौ शब्दभावनाख्यः शब्दव्यापारः शब्दस्य कार्यो ऽभिधेयश्च तमभिदधतः कुवता वा शब्दस्य व्यापारान्तरमस्ति न वा, यदि तावन्नास्ति तदेष व्यापारान्तरनिरपेक्षस्वव्यापारमिवार्थमपि वदतु विश्राम्यतु व्यापारकल्पना, अस्ति चेदेतदभिधाने व्यापारान्तरं तदा ऽनवस्थाप्रतीकारः कश्चिदन्वेष्यः न चासो दूरादपि लभ्यते भूतपरिस्पन्दव्यतिरिक्तव्या. पारनिरासश्च प्रमाणसामान्यलक्षणे विस्तरेण कृत इत्यसौ मार्ग इहाप्यनुसरणीयः, ___ यश्चासौ व्यापारः क्रियते चाभिधीयते च स किं पूर्वमभिधीयते ततः क्रियते पूर्व वा क्रियते पश्चादभिधीयते युगपदेव वा ऽस्य करणाभिधाने इति, न तावत्पू. र्वमभिधीयते अनुत्पन्नस्याभिधानानुपपत्तेः न ह्यजाते पुत्रे नामधेयकरणम् , अर्थासंस्पर्शी च तथा सति शब्दः स्यात् , तत एव न युगपदुभयमनुत्पन्नत्वानपायात् प्रयत्नगौरवप्रसङ्गाच्च, नापि कृत्वा ऽभिधानं विरम्य व्यापारासंवेदनात् ,
अपि चायं तपस्वी लिङादिः प्रत्ययः सत्यपि गोवृन्दारकत्वे कथममुमतिबृहन्तं भारं वक्ष्यति कर्तारं च तत्संख्यां चाख्यास्यति अर्थभावनामभिधास्यते शब्दभावनां च करिष्वति तां च वदिष्यतीति दुर्वहो ऽयं भारः, कश्चायं शब्दभावनानामधेयस्य विधेाक्यार्थ भावनायामन्वय इति वक्तव्यम्।
ननूक एवैकप्रत्ययाभिधेयत्वलक्षणः सम्बन्ध इति, न ब्रूम आभिधानिकः सम्बन्धा नोक्त इति कि तु पुरुषव्यापारात्मिकाया अर्थभावनायाः प्रधानत्वेन वाक्याथत्वात्तदपेक्ष्यमाणफलकरणेतिकत्तव्यतांशपूरणेन स्वर्गकामादिपदान्तराभिधेयो ऽर्थः समन्वेति गुणत्वेन शब्दव्यापारस्तु तदपेक्षितमन्यतममपि नांशं पूरयितुमलमिति तत्र न गुणतामवलम्बते, न च द्वयोः प्रधानयोघंटः पट इतिवद्वा पचति पठतीतिवद्वा सम्बन्ध उपलभ्यते,
अथार्थभावना शब्दभावनाख्यस्य विधेविषयसमर्पणेन गुणतामवलम्बते विधिः तर्हि वाक्यार्थः न भावना तस्या अप्राधान्यात् , अतो भावनाद्वयं प्रत्ययार्थ इति न हृदयङ्गममेतन् ,
एकाभिधानाभिधेयत्वं न भावनयोरन्योन्यसमन्वये कारणम्, अक्षाः पादा