________________
३१६
न्यायमञ्जर्याम्
अष्टे हि विषये विधिः पुंसां प्रवर्त्तकः । अंशत्रयेण चापूर्णां नानुतिष्ठति भावनाम् || तस्मात्प्रक्रान्तरूपो ऽपि विधिस्तावत्प्रतीक्षते ।
यावद्याग्यत्वमापन्ना भावना ऽन्यानपेक्षिणी ।।" इति । सा हि वाक्यान्तरोपात्तमप्यपेक्षते प्रकरणान्तराधीतमपि वान्छति प्रकृतिवद्भावलभ्यमपि याचते अर्थसामर्थ्यगम्यमपि स्पृहयति इत्येकविध एष शब्दप्रमाणमहिमेति, स चायं व्युत्पादनक्रम ईदृशो व्याख्यातृभिरुपदिश्यते इत्थमस्य वाक्यार्थः पुनर्भावनात्मा ऽवगम्यमानः एकयैव बुद्ध्या नेकजातिगुणद्रव्यक्रियाद्यङ्गकलापकल्मापिततनुरवगम्यते तादृश्येकैवेयं वाक्याद्वाक्यार्थबुद्धिः ।
आह च
"भावनैव हि वाक्यार्थः सर्वत्राख्यातवत्तया । अनेक गुणजात्यादिकारकार्थानुरञ्जिता (१) । एकयैव च बुद्ध्या ssसौ गृह्यते चित्ररूपया | पदार्थाहितसंस्कारचित्रपिण्डप्रसूतयेति ॥ "
एक एवायमतिदीर्घः क्रमविकस्वरः सकलाङ्गपरिपूरितभावनातत्त्वविषयः प्रतिभासः, यथा हि स्थास्यधिश्रयणात्प्रभृत्या निरकाङ्क्षौदननिष्पत्तेरेकैवेयं पाकक्रिया सलिलाव सेकतण्डुलावपनदवविघट्टनास्रावणाद्यनेकक्षणसमुदायस्वसम्मात्रे पर्यवस्यति । अशक्तमेवाह - अनुष्ठेय इति । किं च याग्यतापि सम्बन्धकारणं न चत्रियापरिपूर्णा भावना चेतनप्रवर्तनात्मकविध्यन्वययोग्येति । तस्मादिति । अयम्भावः प्रत्यासन्नत्वाद्विधिभावनयोरन्वयेन भवितव्यमित्येव प्रथममवगम्यते इयं चावस्था विधिसंस्पर्श इति विधिप्रक्रम इति चोच्यते तथा भावनान्वयावगमेऽपि विधिरयोग्यत्वात्तावद्भावनां विधातुं न शक्नोति यावत्सांशत्रयपरिपूर्णा न भवति इति सर्वोपरिपूर्णा मंशान्तरानपेक्षिणीं भावनां विदधाति इति ।
( १ ) श्लोकवार्तके वाक्याधिकरणे कला ३३०-३३१ | भावना एव वाक्यार्थः ननु शुक्ला गौरित्यादौ भख्याताभावात् कथं भावना वाक्यार्थोऽत आह-सर्वत्रेति । तत्राव्याख्यातपदमध्याहार्यमिति भावः । ननु प्रत्ययमात्रस्यार्थ भावना सा कथमनेक पदार्थाङ्कितो वाक्यार्थः स्यादत आह--- -- श्रनेकेति । पदार्थान्तरानुरकरूपेणैवालों वाक्यार्थे न स्वरूपेण तादृशी चालो वाक्येनैवावगम्यते इति युक्तमस्या वाक्यार्थत्वम् । ननु अगृहीतायास्तस्या न वाक्यार्थत्वसम्भव इति कया बुद्ध्या सा गृह्यते इत्यत आह- एकयेति । ननु तादृशी बुद्धिर्वाक्येन न जन्यते वाक्यस्यावाचकत्वादत आह - पदार्थेति । प्रत्येकं पदजनितपदार्थबुद्धिजन्य विचित्र संस्कारसमूहादेव स्मृ तिरूपा सा बुद्धिर्जभ्यत इति । युगपत्सन्निहिताः सर्वे पदार्थाः सर्वविशेषणविशिष्टभाव. माबुद्धिं जनयन्तीति यावत् ।