SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ प्रमाण प्रकरणम् ३१५ भव्यतां प्रतिपद्यते, करणांशे तु तस्या नियोज्यविषय समर्पकपदव्यापारो निविशते यथा हि ययादिना स्वर्गादिर्भव्यः सम्बद्यते इत्यर्थभावनायामसौ तत्करणतामवलम्बते एवमिहापि नियोज्य पुरुषप्रवृत्तिर्विषयाद्यवगमात्संपद्यते इति तदभिधा. यकशब्दव्यापारस्तत्र करणतां प्रतिपद्यते, इतिकर्तव्यतां तु अर्थवादपदव्यापारो Sस्या अवतिष्ठते केवलं विधिपदश्रवणे हि सति न तथा प्रवर्त्तयितुमुत्सहन्ते श्रोतारे। यथार्थवादजनित बहुप्रकार कर्म प्राशस्त्यज्ञानपरितोषित हृदयाः सन्त इत्यर्थवादाः प्रवृत्त्यतिशयहेतव:, तेन तद्व्यापार इतिकर्त्तव्यतां शमस्याः पूरयतीति, एवं नियोज्यव्यापारो भव्यो विषयादिसमर्पकपदव्यापारः करणम् अर्थवादव्यापार इतिकर्तव्यतेति सेयं त्र्यंशा शब्दभावना सैव च विधिः, विधिभावनयोः संबन्धनिरूपणम् नच विधेर्वाक्यार्थानन्वयलक्षणो दोष आशङ्कनीयः, यत एकप्रत्ययो - पादानलक्षणया प्रत्यासत्या तदन्वितावगमात् आहुश्च - विधिभावयेनास्त्वेकप्रत्ययग्राह्यताकृतः । " धात्वर्थात्प्रथमं तावत्सम्बन्धे ऽध्यवसीयते इति ( १ ) । विधिर्भावनायां पुरुषं नियुङ्क्ते, यथा ऽऽह "स्वव्यापारे हि पुरुषः कर्तृत्वेन नियुज्यते” (२) इति, तयोः कथमन्वयः स्यात् । ननु च त्वयैवोक्तं धात्वर्थात्पूर्वतरं तावद्भावनाया विश्व सम्बन्धो ऽवगम्यते एकपदेोपादाने ऽपि धात्वर्थस्तावत्प्रकृत्यंशाभिधेयः विधिभावने तु द्वे प्रत्ययांशेनाभिधीयते इति अतश्च स्वच्छेव भावना विधिना स्पृश्यते न विषयानुरक्ता, स्वच्छा न प्रयोगयोग्या भवति या च फलकरणेतिकर्तव्यतां - परिपूर्तिप्रस्थिता प्रयोगयेोग्या न तां विधिः स्पृष्टवान् अविधिस्पृष्टेषु च धात्वकारकादिषु किमिति स चेत् पुरुषः प्रवर्त्येतेति उच्यते यद्यपिं विधिरनधिगतधात्वर्थानुरागतया स्वच्छामेव भावनामेका भिधानत्वात्प्रथममाक्षिपति तथा हि तादृशि तस्यां सप्रत्ययप्रवर्तमानात्मनिजस्वरूपनिर्वहणमलभमानो न तावत्येव विरमति किं तु परिणीतबालकन्यको वर इव तावद्विलम्बमानः प्रसारितस्तस्ते यावत्सर्वाङ्गसुन्दरी प्रयागयोग्या भावना भवति, आह च ( ३ ) - “यद्यप्यन्यैरसंस्पृष्टां विधिः स्पृशति भावनाम् । तथाप्यशक्तितो नासौ तन्मात्रे पर्यवस्यति || ( १ ) श्लोकवातिके वाक्याधिकरणे इला० ७९ । (२) तन्त्रवार्त्तिके अ. २ पा. २ सू. १ । (३) लकवार्तिके वाक्याधिकरणे श्लो. २७३ - २७६ । विधिः यद्यपि अभ्यै संस्पृष्टां स्वच्छां भावनां स्पृशति तथापि केवलाया भावनाया विधातुमशक्यत्वान्न
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy