SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जर्याम् भावनाद्वैविध्यम्- इह हि लिङादियुक्तेषु वाक्येषु द्वे भावने प्रतीयेते शब्दभावना अर्थ - भावना चेति, तत्रार्थभावना तावद्धात्वर्थातिरिक्तप्रयोजकव्यापारात्मिका दर्शितैव, यो भवनक्रियाकर्तृविषयः प्रयोजकव्यापारः पुरुषस्थो यत्र भवनक्रियायाः कर्ता स्वर्गादिः कर्मतामापद्यते सेो ऽर्थ भावनाशब्देनोच्यते व्याख्यातश्चासौ, यस्तु शब्दगतः प्रयोजकव्यापारः यत्र पुरुषप्रवृत्तिः साध्यतां प्रतिपद्यते सा शब्दभावना तथा ह्युक्तम् "अभिधाभावनामाहुरन्यामेव लिङादयः (१) " इति, लिङन्तशब्दश्रवणे हि यथा यज्याद्यवच्छिन्नं स्वव्यापारं पुरुषो ऽधिगच्छति तथा तदनुष्ठाने प्रेरितो ऽहमित्यपि प्रतिपद्यते तेनानुष्ठेयार्थप्रतिपादने इत्र प्रेरणायामपि शब्दस्य सामर्थ्याद् भावनाद्रयप्रतिपादकं लिङादियुक्तं वाक्यमिष्यते, ततः पुरुषव्यापारश्चार्थभावना शब्दव्यापारश्च शब्दभावना ऽवगम्यते, शब्दव्यापारात्मकत्वाच्च शब्दद्भावनाशब्देनाभिधीयते, अनवगता च सती न कार्याङ्गमिति शब्देन सा ऽभिधीयते ऽपि तदुक्तम् "अभिधत्ते करोति च " इति । शब्द भावनायास्त्र्यंशापेक्षित्वम् ३१४ ननु शब्दभावनाऽपि भावनाऽऽत्मकत्वादर्थभावनावदशत्रयमपेक्षते एवेति तदस्या दर्शयितव्यम् उच्यते भव्यांशे तावदस्याः पुरुषप्रवृत्तिरुपनिपततीति उक्तमेव पुरुषप्रेरणात्मको हि विधिः शब्दभावनेति तत्साध्या पुरुषप्रवृत्तिरेव तत्र " ( १ ) तन्त्रवार्तिके अ० २ पा० १ सू० १ । ' अर्थात्मभावना त्वन्या सर्वा ख्यातस्य गोचरः" इत्युत्तरार्द्धम्, अयमभिप्रायः लिडाद्युच्चारणात प्रागसिद्धस्य विधेः अगृहीतसम्बन्धतया लिहूपदवाच्यता न सम्भवतीति लिडाद्युच्चारणात्प्रागेव विधेः सि. द्विर्वक्तव्या ततश्च लिडो विधिपरत्वं न सम्भवतीतिशङ्कायां शब्दश्रवणानन्तरभावि प्रवृतिहेतु प्रेषणाध्येषणादिव्यापारानुवृत्त प्रवर्तनासामान्यं लिङभिधत्ते इति निविशेषं न सामान्यमिति न्यायेन तद्विशेषापेक्षायामपौरुषेये वेदे पुरुषधर्मस्य प्रेषणादेरसम्भवात्तयतिरिक्त एव विध्याख्यो विशेषः परिशेषाल्लक्षणया गम्यते इति सम्बन्धग्रहणानपेक्षत्वेन प्राकू सिद्धयनपेक्षणेनाविरुद्धा शब्दव्यापारता इत्युत्तरं सूचयतुमभिधाशब्दः । कारिकाथस्तु अभिदधातीति अभिदधास्यनेनेति वा व्युत्पत्या अभिधा शब्दः तस्य व्यापारो भावना | अन्यामित्यस्य अपरामित्यर्थः तथाच अन्यशब्देन शब्दभाव - नायाः पाश्चात्यमभिदधताऽर्थ भावनाविषयत्वेन तदपेक्षत्वसूचनात् विध्यभिधायित्वं नार्थभावनाभिधायित्वबाधकं किन्तु तत्साधकमिति सूचितम् अर्थयते इति अर्थ: कर्तरि एरच् अर्थशब्देन अर्थिनः पुरुषस्याभिधानं भावना च पुरुषधर्मः धर्मधमिणोश्चात्यन्तभेदाभावात् तादाम्यं विवक्षित्वा अर्थात्मा चासौ भावना चेति विग्रहः इति ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy