________________
प्रमाणमकरणम्
३१३
निर्वहतीति तत्कृतस्तदवबोध उच्यते, निषेधे न हन्यादिति निषेध्यमानस्य भावास्यानर्थतामनबोधयविधिर्त रागतः प्रवर्तमानं पुमांसं निरोद्धुमुत्सहते इति विधेयनिषेध्ये ऽपि तस्यैव व्यापार इत्यवश्याश्रयणीयो विधिः,
यश्चैष पर्यनुयोगः किमर्थं विधिराश्रित इति स खलु सरलमतिकृत इत्र लक्ष्यते, न हि वयमद्य कृतं विधिमाश्रयेम जहीमो वा प्रतिपत्तारो हि वयं वेदस्य न कर्तारः, तत्र च सविधिकानि यजेत स्वर्गकाम इतिप्रभृतीनि वाक्यानि श्रयन्ते तेषां मीमांस्यमानो ऽर्थ ईदृगवतिष्ठते स्वर्गः साध्या यागः साधनमिति विधिसामर्थ्यलभ्य इति युक्तं विधेराश्रयणम् । प्रवर्तक स्वरूपनिरूपणम् -
यत्तु प्रवर्त्तक स्वरूप निश्चयाद्विधेरनिश्चय इति तत्राप्युच्यते, फलं तावन्न प्रवर्त्तकं सिद्धासिद्धविकल्पानुपपत्तेः, सिद्धस्य फलस्याप्रवर्त्तकत्वं सिद्धत्वादेव न हि यद्यस्यास्ति स तदर्थं यतते, नाप्यसिद्धस्य खरविषाणप्रख्यस्य फलस्य प्रवर्त - कत्वं युक्तमदृष्टत्वात् ।
अथ कामनाविषयीकृतं फलं प्रवर्तकमिष्यते सेयं कामनैव प्रवर्त्तिकेोक्ता भवति न फलम्, उपजातप्रवृद्धतररागस्यापि काम्यमानेापायपरिच्छेदमन्तरेण प्रवृत्यनुपपत्तेः, न हि स्वर्गकामः सांग्रहिणीमनुतिष्ठति तद्वरं श्रेयः साधनं प्रवकमपि चैवमेव व्यवहारो दृश्यते हरीतक प्रादीनामारोग्यसाधनतां वैद्याचार्य चोदनातोऽवगत्य तदुपायादावातुरो जनः प्रवर्त्तते तृप्तिसाधनता मोदनस्य मन्यमानः तद्भक्षणाय बुभुक्षितः प्रवर्त्तते इति श्रयः साधनत्वमेव प्रवर्त्तकम्,
9
एतदपि न चतुरस्रम् श्रेयः साधनत्वं ह्यनवगत मवगतं वा प्रवर्तकं भवेत्, नानवगतमन्युत्पन्नस्य प्रवृत्तेरदर्शनात्, यो हिं हरीतकीनामारोग्यहेतुतां न कुतश्चिदधिगतवान्नासौ तदर्थ्यापि तामुपयुङ्क्ते तस्मात्तद्बोधहेतुः प्रवर्तकः स च दृष्टे विषयेऽन्वयव्यतिरेकादेरपि सम्भवति किं तेन, अदृष्टे तु विषये श्रेयःसाधनाधि - गमः शब्दैकनिबन्धन इति तदधिगमोपायः शब्द एव प्रवर्तकः, अत एव शब्दा Sपि न स्वरूपमात्रेण प्रवर्तको वाय्वादितुल्यत्वप्रसङ्गात्, यदि पवन इव पिशाच इव कुनृप इव शब्दः प्रवर्तको भवेद् अनवगतशब्दार्थसम्बन्धोऽपि श्रवणपरवशः प्रवर्त्तेत न चैवमस्ति, तस्मादर्थप्रतीतिमुपजनयतः शब्दस्य प्रवर्तकत्वम्, न च नाम लिङाद्दिरेव शब्दः प्रवर्तकाभिधानद्वारेण प्रवर्तको भवितुमर्हति, शब्दस्य च ज्ञापकत्वोच्चक्षुरादिकारकवैलक्षण्ये सत्यपि प्रतीतिजन्मनि करणत्वमपरिहार्य करणं च कारकं कारकं च न निर्व्यापारं स्वकार्यनिर्वृत्तिक्षममिति व्यापारस्तस्यावश्यम्भावी, लिङादेः शब्दस्य न प्रतीतिजन्ममात्रे व्यापारः किं तु पुरुषप्रवृत्तावपि तथावगमात्, लिङर्थावगमे सति प्रवृत्तिर्दृश्यते इति तत्रापि लिव्यापारः प्रभवति, स चायं लिङादिव्यापारः शब्दभावनानामधेयो विधिरित्युच्यते स एव च प्रवर्तकः
४० न्या