________________
न्यायमअाम्
विधिस्वरूपनिरूपणम् -- • कश्चायं विधिर्नामेत्येतदपि न विद्भः, ननु चाहु:
विधेर्लक्षणमेतावदप्रवृत्तप्रवर्त्तनम् ।।
अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः ॥ .. बाढं श्रुतो ऽयं श्लोकः किं तु को ऽसावप्रवृत्तप्रवर्तक इति न जानीमः, प्रवर्तकस्वरूपे हि संशेरते प्रवादुका इति किं लिङादिः शब्द एव प्रवर्तकस्तद्या. पारो वा तदर्थो विनियोगः फलं वा स्वर्गादिश्रेयः साधनत्वं वा रागादिर्वा प्रव. तकस्वरूपाऽनवधारणाद्विधेरप्यनवधारणमिति, यत्तावदुक्त किं विध्याश्रयणे. नेति तत्रोच्यते.....यदयं साधनत्वेन यजेरभिहितो ऽन्वयः।।
स्वर्गस्य च फलत्वेन स एव महिमा विधेः॥ विधिवचनमन्तरेण हि स्वर्गकामो यजेतेति पुरुषलक्षणार्थः स्वर्गकामशब्दः शुल्लों होतेतिवत्स्यात् , ततश्चैकपदोपादानलक्षणप्रत्यासत्तिसंबन्धनिसर्गघटित. पूर्वापरीभूतस्वभावधात्वर्थसाध्यताऽतिक्रमेण दूरात्स्वर्गस्य साध्यत्वमन्यत्रोपस. जनीभूतस्य कथं कल्पयितुं शक्यते, तस्मादेष विशिष्टः साध्यसाधनसम्बन्धी विधिप्रसादलभ्य एव भवति नान्यथेति विधिराश्रयणीयः।।
कथं पुनविधिरप्यमुं साध्यसाधनभावं बोधयति, इत्थं बोधयति स हि सप्र. स्ययप्रवर्तकस्वभावः, न चापुरुषार्थरूपे व्यापारे पुरुष: प्रेर्यमाणे ऽपि सत्यप्र. स्ययः प्रवर्तमाने ऽपि पुंसि प्रवर्तकत्वाख्यनिजस्वरूपसंकोचमाशङ्कमानो विधि: पुरुषार्थवभावं स्वर्ग साध्यतया व्यस्थापयति यागं चास्य साधनतया इति एवं छवबोधयतो ऽस्य प्रवर्तकत्वं निर्वहति ।
यत्त दर्शिते स्वर्गादौ फले न प्रवर्तते चेत्पुरुषः किं विधिः कुर्यादिति तदप्ययक्तम् , न हि वाखादिवत्पुरुषस्य प्रवर्तको विधिः वाय्वादिः खलु सप्रत्ययमपि तदितरमपि प्रवर्तयति विधिस्तु सप्रत्ययस्यैव प्रवर्तक: सप्रत्ययस्य चैतावत्प्रवर्तन यस्प्रवर्तितोऽहमिति ज्ञानजननं न फलमदर्शयता विधिना सप्रत्ययस्य ज्ञानं जन यितुं शक्यं फले तु दर्शिते सति तदस्य ज्ञानं जनितमेव अनेन जनिते ज्ञाने
प्रमाणवृत्तेन प्रवर्तित एवासौ विधिना पुरुष: आलस्यादिना निर्थित्वेन वा बहिः .. प्रवृत्तिपर्यन्ततया चेन्न प्रवर्त्तते मा प्रवर्तिष्ट विधिना तु स्वकर्त्तव्यं कृतं प्रवर्तितः अहमिति ज्ञानजननात् , अन्यो हि प्रवर्तनावगमो ऽन्यश्च बाह्यो व्यापारः।
एवं विधिवशादेव साध्यसाधनभावधीः ।
सा हि प्रथमनिर्वृत्तप्रेरणाज्ञानपूर्विका ॥ यजेसेति प्रेरणा प्रतीयमाना साध्यसाधनसम्बन्धमनवबोधयन्ती विधौ न