________________
प्रमाणप्रकरणम्
३११ याममिहोत्राख्यो होमः करणमेवाग्यथा स्वर्गकामपदानन्वयप्रसङ्गादित्युक्तम् , नामधेयपदं तु किचित् कर्मतामनुवदति अग्निहोत्रमित्यादि किश्चित्करणतां ज्योतिष्टोमेनेति, तस्माद्यजे: करणत्वेनैवान्वय इति सिद्धम् ,
यस प्रत्यासन्नवात्सायांशोपनिपातितेत्युच्यते तदयुक्तम् , योग्यत्वावि. रोधिनी प्रतिपत्तिः सम्बन्धकारणं न तद्विपरीता योग्यत्वं च खर्गस्यैव साम्यतायां यजेश्च करणतायामित्युक्तम् ,
एवं यागेन भावयेदित्यवगते कथमित्यपेक्षायामितिकर्तव्यता तद्वाक्यपठिता वाक्यान्तरनिवेशिता वा सम्बध्यते, तद्वाक्योपात्ता तावद्यथा "एतस्यैव रेवतीषु वारवन्तीयमनिष्टोम साम कृत्वा पशुकामो ह्येतेन यजेते"ति, वाक्यान्तरोपाचा "त्रीहीनवहन्ति" "तण्डुलान्पिनष्टि" "समिधो यजति" "तनूनपातं यजति" इति ।
इतिकर्तव्यता हीष्टा दृष्टादृष्टप्रयोजना । प्रायः सर्वत्र भावार्थे कथमंशोपपादिनी ॥ दृष्टोपकारद्वारेण सम्बन्धे पेषणादिका। इतिकर्तव्यता ज्ञया सन्निपत्योपकारिणी ।। भावार्थमनुगृहाति या त्वदृष्टेन वर्त्मना । समिदाद्यात्मिकामाहुस्तामारादुपकारिणीम् ।। एवमंशत्रयाश्लेषलब्धानुष्ठानयोग्यताम् ।
भावनामीहशीं प्राप्य वृत्तिविधिनिषेधयोः । दर्शपौर्णमासाभ्यां यजेत स्वर्गकाम: ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यत्रानन्तरोक्तनीत्यैष वाक्यार्थो जातः दर्शपौर्णमासेन यागेन स्वर्ग भावयेदनयाs. · ग्न्यन्वाधानादिकयेतिकर्तव्यतयेति,
किमर्थं पुनर्विधिराश्रीयते वर्तमानापदेशिष्वप्याख्यातेषु भावना प्रतीयते इति दर्शितवान्भवानतः किं विधिना, तस्य ह्याश्रयणं स्वर्गयागयोः साध्यसाध. नभावबोधनाय प्रवृत्तिनिवृत्तिसिद्धये वा, साध्यसाधनसम्बन्धस्तावदाकाङ्क्षासन्निधियोग्यतापोलोचनया वर्तमानापदेशिनो ऽप्याख्याताद्भावनावगमे सति भवत्येवान्तरेणापि विधिम् , प्रवृत्तिरपीच्छानिबन्धना स्वर्गस्य साध्यत्वे यागस्य च साधनत्वे ऽवधारिते यः स्वगेमिच्छेत्स तत्सिद्धये प्रवर्तते एव यस्तु नेच्छे. त्तस्य विधिरपि किं कुर्यात्, न घप्रवर्त्तमानस्य पुंसो विधिनिगडे पदं निदधाति रज्ज्वा वा बाहू बध्नाति निषेधाधिकारे ऽपि सुरापानब्राह्मणहननादेः प्रत्यवायसाधनत्वावधारणात्तत्परिजिहीर्षया पुरुषो निवत्तेतेति प्रवृत्तिनिवृत्त्योन कारणं विधिरिति तदर्थमपि विधिपदाश्रयणमसांप्रतम् ,.......