________________
न्यायमचर्याम् येदिति, स्वर्ग कामयते इति च व्युत्पत्तौ विस्पष्टमेव तस्य साध्यत्वम् , बहु. ग्रीहावपि तस्यैव साध्यत्वं विधिवृत्तपर्यालोचनयाऽवधार्यते, ___एवं स्वर्ग भावयेदित्यवगते केन भावयेदित्यपेक्षायां यागेनेति सम्बध्यते, ननु यागेनेति न श्रूयते किं तु यजेतेति तचाख्यातपदं प्रकृतिप्रत्यया. स्मकसमुदायरूपम् , तत्र लिङः प्रत्ययार्थस्य भावना वाच्येत्युक्तम् , यज इति तु धातुमात्रमवशिष्टं तस्य कृदन्तस्य तृतीयान्तस्य यागेनेति यो ऽर्थः स कथमेकाकिना तेन प्रत्याय्येत, उच्यते भावना चेत्प्रत्ययार्थ इति सोढमा. युष्मता यागेनेत्यभिसम्बन्धः सोढव्य एव यो हि तस्यां यथा सम्बन्धु योग्यः तमसौ तथा प्रतीक्षते नान्यथेति करणाकाङ्क्षापरिपूरणे सम्बन्धयोग्यो यजिरिति तथैवेष भावनया ऽभिसम्बध्यते।
अप्रातिपदिकत्वाद्धि तृतीया तत्र मा स्म भूत् ।
शब्दसामर्थ्यलभ्या तु नूनं करणता यजेः ।। कस्य पुनः शब्दस्य सामर्थ्यमेतद्भावनावाचिन इति ब्रूमः, तृतीययैव कर. गत्वमभिधानीयमिति नेयं राजाज्ञा ततस्तदवगतेस्तथा ऽभ्युपगम्यते एवमिहापि स्वर्गकामो यजेतेति तथा ऽवगतिर्भवन्ती किमिति न मृष्यते ।
आख्यातासाध्यता या च धात्वर्थस्यावगम्यते ।
द्वितीया श्रूयते तत्र किं वा तदभिधायिनी ॥ • नन्वेवं तहि धात्वर्थस्य साध्यताऽवगतेः किमित्यंशे यजिना पतितव्यं कि भावयेद्यागमिति केनेत्यपेक्षिते वाक्यान्तरसमाहितं ब्रीहिभिरित्यादि सम्बध्य. ताम , न पुनर्यजिः साध्यरूपव्यापाराभिधायिप्रत्ययोपसर्जनीभूतकर्मतामति. प्रत्यासनामनारुह्य दूरवर्तिनी करणतामधिरोढुमर्हति. ___ उच्यते स्यादेतदेवं यदि हि स्वर्गकाम इति न श्रूयेत तस्मिंस्तु श्रुते नैवं भवितुमर्हति, कुतः
स्वर्गे साध्यत्वसम्बन्धादलब्ध्वा साध्यताऽन्वयम् ।
यजिस्तदानुगुण्येन करणांशे च तिष्ठति ॥ स्वर्गस्य हि काम्यमानत्वात्प्रीत्यात्मकत्वेन चानन्यार्थत्वात्साध्यतायां यो. ग्यत्वात्किमित्यंशोपनिपाते सिद्ध तत्रालब्धनिवेशो यजिस्तदपेक्षितां करणतामेव योग्यत्वादवलम्बते।
सामानाधिकरण्यं च ज्योतिष्टोमादिभिः पदैः। ... एवं सत्युपपद्येत करणत्वानुवादिभिः ।
कर्मनामधेयत्वं ज्योतिष्टोमादीनां शब्दानामुक्तम् , .. ननु साध्यत्वपक्षसाक्षितामपि कर्मनामधेयानि भजन्ते अग्निहोत्रं जुहोतीति, नैष दोषः, साध्य एव भवन्भावार्थः साधनतामवलम्बते तत्रापि हि स्वयंभावना