________________
प्रेमाणप्रकरणम्
स यनो यागहोमादिक्रियानिवृत्तिकारणम् । तस्य तद्यतिरिक्तत्वं प्रायः सर्वो ऽनुमन्यते ॥ स चायमात्मधर्मों ऽपि न विभुत्वादिवन्मतः । साध्यरूपाभिसम्बन्धाद्धत्ते विषयतां विभोः ।।
इत्यपरे।
अन्ये धात्वर्थसामान्यं भावनामभ्युपागमन ।
यागदानाद्यनुस्यूतं रूपं गोत्वादिजातिवत् ॥ - यथा हि शाबलेयादिष्वनुगतं गोरूपमवभासते व्यावृत्तं च शावलेयादिरूपमेवमिहापि यागादिकर्मणामनुगतं च व्यापाररूपं प्रतिभासते परस्परविभक्तं च यागादिरूपं यत्तदनुगतं व्यापाररूपं सा भावना, यथा च शाबलेयाद्यननुरक्तं पृथक्त्वेन गोत्वं दर्शयितुमशक्यमेवमिहापि शुद्धं यज्याद्यननुरक्तं व्यापाररूपं दर्शयितुमशक्यम् , तदुपरक्तत्वेन तस्य सर्वदाऽवगमान्न चैतावता तस्य ना. स्तित्वं सुखदुःखाद्यवस्थानुगतस्येवात्मनः, तथा च किं करोतीत्यनवगतविशेष. व्यापारसामान्य प्रश्ने सति पचति पटति इति तद्विशेषोत्तरवचनमनुगुणं भवतीति, तब सामान्यरूपमपि न गोत्वादिवस्क्रियात्ववद्वा सिद्धतया ऽवभासते येन विधेरविषयः स्यात् ,
अपि च यजेत दद्याज्जुहुयादिति सर्वत्र पूर्वापरीभूतस्वभावं तद्यापारसामान्यमवगम्यते विधेश्च विषयतां प्रतिपद्यते तदिदं सकलधात्वर्थसाधारमं साध्यमानावस्थं व्यापारसामान्यं भावनेत्युच्यते, तस्मिंश्च पक्षे धातुवाच्यत्व. मपि भावनाया वक्तुं शक्यते, पाकादिशब्देभ्यो धातो सत्यपि तदप्रतीतेन धातुवाच्यत्वं भावनाया इति चेद् भवत्यादौ सत्यपि तर्हि प्रत्यये तदप्रतीतेः प्रत्ययवाच्यत्वमपि न स्यात् , तदलमनेन निर्धारणप्रयत्नेन सर्वथा धातोवाप्रत्ययाद्वा भावना ऽवगम्यते इति सिद्धम् ।
भावनायास्त्र्यंशापेक्षित्वम्सा धातोः प्रत्ययाद्वा ऽपि भावना ऽवगता सती।
अपेक्षतेऽशत्रितयं किं केन कथमित्यदः ॥ भावयेदित्यवगते ननमपेक्षात्रयं भवति किं भावयेत्केन भावयेत्कथं भाव. येदिति, तत्र किमित्यपेक्षा स्वर्गकामपदेन पूर्यते किं भावयेत्स्वर्गमिति,
ननु स्वर्गकाम इति पुरुषनिर्देशो ऽयं न फलनिर्देशः, सत्यम् , स्वर्गपरस्त्वयं निर्देशः, उक्तं हि निरतिशयप्रीतिवचनः स्वर्गशब्दः प्रीतिश्च नान्यार्थेत्यप्युक्तम् , साध्यत्वेन च स्वर्गः काम्यते इति स एव हि किमित्यंशे निपतति स्वर्ग भाव