________________
३०४
न्यायमचर्याम् करोतीति पाकशब्देन द्वितायान्तेन साभ्यं धात्वर्थ व्याचक्षते कर्तृव्यापारात्मक प्रत्ययार्य करोतीति पदेन,
किं च किं करोति देवदत्त इति पृष्टाः सन्तो द्वये वक्तारो भवन्ति करोति पाकमिति पचतीति वा तदिदमुभयरूपमप्युत्तरमेकार्थमन्यथा न तेन प्रष्टा प्रत्याय्येत, तस्मात्पाकं करोतीति पदद्वयस्य यो ऽर्थः स एवार्थ एकस्य पच. तीति पदस्य, अत्रापि पचत्यदर्थादन्य: करोत्यर्थः प्रतीयते एव यो ऽसावन्यः करोत्यर्थः स भावना,
आह न कर्तृसंख्या दिव्यतिरेकेण प्रत्ययाद्धात्वातिरिक्तं व्यापारं प्रतिप. धन्ते प्रतिपद्यरंश्चेत्करोतीत्यतोऽपि शब्दात्प्रतिपद्यरन् न च करोतीत्यत्र प्रकृतिप्रत्ययवाच्ये क्रिये विभज्य दर्शयितुं शक्येते, उच्यते, नेदं साधु बुध्यसे
यथा पाकं करोतीति प्रतीतिर्नास्ति लौकिको । प्रत्ययार्थः करोत्यर्थं पचत्यादौ तु वर्त्तते ॥ कर्तृसंख्याप्रतीतौ च न विवादो ऽस्ति कस्य चित् ।
तावता निहवः कार्यो न तु व्यापारसंविदः॥ करोतीत्यादिशब्दाभिधेयया ऽनया यथा न भवितव्यं तथा विशिष्टेभ्यः शन्देभ्यस्तत्प्रतीतिरिष्यते न सर्वेभ्यः, के पुनस्ते विशिष्टाः शब्दा ये भावनाम: भिदधति, उच्यते
भावार्थाः कर्मशब्दा ये तेभ्यो गम्येत भावना । ___यजेतेत्येवमादिभ्यः स एवार्थों विधीयते ॥ भवन्ति के चिद्भावार्था ये न कर्मशब्दाः यथा भावो भवनं भूतिरिति, भवन्ति च के चित्कर्मशब्दा न भावार्थाः श्येनादयः कर्मनामधेयतया प्राक्सम. थिताः, ये तु भावार्थाः कर्मशब्दा यजते ददाति जुहोति इत्येवमादयम्तेभ्यो भावनाख्या क्रिया गम्यते तैरेव लिङादिविभक्त्यन्तैः सो ऽथों ऽभिधीयते यजेत दद्याज्जुहुयादिति, यद्यर्थः ण्यन्तेनावगम्यते भावयेदिति च करोतिशब्दादपि केवलात्कर्तृव्यापारो न नासावगम्यते, स च यागादिकर्मणा नानुरक्तेन प्रयोग योग्यता प्रतिपद्यते इति विशिष्टेभ्य एव यजत्यादिशब्देभ्यो भावनाख्यो ऽनुष्ठेयः पुरुषव्यापारः प्रतीयते इति सिद्धम् ।
क्रियाविशेष एवायं व्यापारो ज्ञातुरान्तरः ।
स्पन्दात्मकबहिभूवक्रियाक्षणविलक्षणः ।। इत्येवं के चित् ।।
पुरुषस्य प्रयत्नो वा भावनेत्यभिधीयते । औदासीन्यदशापायं पुमान्येन प्रपद्यते ॥