SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ प्रमाणपकरणम् फलं साध्यमानत्वात्साध्यत्वं चास्य भवनक्रियाकर्तृत्वात् भवनक्रियायां च कर्तृ. त्वमुत्पत्तिधर्मकस्य वस्तुनो दृष्टम् , न नित्यं भूतस्य नापि नित्यमभूतस्य यथाऽऽह नित्यं न भवनं यस्य यस्य वा नित्यभूतता। न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव(१)॥ स्वर्गादिश्व काम्यरूपो ऽर्थः खतत्पुष्पाभ्यां विलक्षण इति भाव्यो भवति, तनिष्ठस्तदुत्पादकश्च पुरुषव्यापारो यस्स भावना सा ण्यन्तेन भवतिनोच्यते, प्रकृत्यर्थस्य भवतेः कर्ता यः स्वर्गादिस्स एव ण्यन्तस्य तस्य कर्मतां प्रतिपद्यते, कर्ता त्वस्य प्रयोजकः पुरुषः, णेश्वार्थः णिज्वाच्यः प्रयोजकव्यापारः, पुरुषो हि भवन्तं स्वर्गादिमर्थ स्वव्यापारेण भावयति सम्पादयति स तत्संपादको व्यापारो भावनेत्युच्यते, ननु व्यापारः क्रियैव न तदतिरिक्तस्य व्यापारस्यासम्भवात्क्रियाव्यापारपक्षश्च प्रतिक्षिप्तः, उच्यते, न क्रियामात्रं भावना ऽपि तु परिदृश्यमानपूर्वापरोभूतयज्यादिभावस्वरूपातिरिक्तः पुरुषव्यापारः प्रत्ययात्प्रतीयमानो भावना, यथाऽऽह न सा केन चिदुत्पाद्या जनिका सा न कस्य चित् । केवलं जननी ह्येषा जन्यस्य जनकस्य चेति ।। क्रियाकारकादिविलक्षणैव सा शब्दात्प्रतीयते इत्यर्थः, ननु च यजेतेत्यत्र प्रकृत्यों यागादिक्रिया प्रत्ययार्थस्तु प्रेरणारूपो विधिः कर्तृसंख्यादिश्च न तु धात्वभिधीयमानव्यापारव्यतिरिक्तो भावनाख्यः प्रत्ययात्पुरुषव्यापारः प्रतीयते न हि भावनावाचिनी कां चिद्विभक्ति स्मरति पाणिनि: लिङादिमिव विध्यादौ तस्मान्न भावना वाक्यार्थः, ___ उच्यते भावना ऽपि प्रतीयते एवाख्याताद्यदि नैपुण्येन शाब्दी प्रती. तिरवमृष्यते। आस्तां विधिपदं तावद्वर्त्तमानापदेशिनः । शब्दाद् यजत इत्यादेर्भावना न न गम्यते ॥ पचति पठति गच्छतीति अतो यथा पाकादिर्धात्वर्थः प्रतीयते तथा सर्वानुगतः कर्तृव्यापारो ऽपि पाकाद्युपजनापाये ऽपि व्यापारप्रतीतेरनपायात् , यथा यौपगवः कापटवः औपमन्यव इत्युपगुप्रभृतीनामुद्धारं च निक्षेपं च प्रत्ययार्थों ऽनुवर्तते तद्धितान्तेषु तथा ऽऽख्यातेष्वपि सो ऽनुवर्तमानो दृश्यते, अपि च पचतीत्याख्यातपदस्य यदार्थों व्याचिख्यासितो भवति तदा पाक (१) तन्त्रवार्तिके ० २ पा० सू०१। अयमर्थः य एव हि प्रवृत्तभवनः सम्भावितभवनो वाऽन्येन प्रयुज्यते स एव क्रियमाणत्वेनावधार्यते याचासम्भावित. भवनो नित्यो वा यथा खपुष्पमाकाशं वा न त कश्चित्कुर्वन्नुपलभ्यते इति ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy