________________
न्यायमअर्याम्
लभतामिति यतते पुरुषः किं तु स्वोपभोग्यतयैव सर्वमभिलषतीति अतस्त. स्यापि तदर्थत्वान्न प्राधान्यम , आह च(१) “फलं च पुरुषार्थत्वात्" इति,
हन्त तहिं पुरुष एव वाक्याथी भवतु स ह्यनन्यनिष्ठः स्वतन्त्रत्वात् , उच्यते, पुरुषो ऽप्योदुम्बरीसंमार्जनादिषु विनियुज्यते एव यजमानसंमिता औ• दुम्बरी भवतीति तस्यापि तदर्थत्वमुक्तं च(२) "पुरुषश्च कर्मार्थत्वात्" इति,
क्रियाफलपुरुषाणां वाक्यार्थत्वनिराकरणम्-- यद्येवं संकटे पतिताः स्मः न विनः किं विदध्महे क्रिया हि फलार्था फलं च पुरुषार्थ पुरुषः क्रिया इति परिवर्तमाने चक्रे कस्य प्राधान्यं शिष्मः कस्य वाक्याओंत्वम् ,
उच्यते, पुरुषस्तावन्न वाक्यार्थः श्राख्यातवाच्यत्वे एव तस्य विवदन्ते का कथा वाक्यार्थत्वस्य, ननु कर्तरि लकार इति स्मरणात्कथं नाख्यातवाच्यः का, को ऽयं लकारो नाम, स हि वर्तमाने लडिति विधाय कर्तरि शप युष्मदि मध्यमः अस्मद्युत्तमः शेषे प्रथमः तिप्तस्झीति बहुषु बहुवचनं व्यक. योद्विवचनैकवचने इति वाक्यान्तरे विभज्य विवृतः, तदेतानि कारकसंख्या. विभक्तिविधायीनि सूत्राण्येकवाक्यतया व्याख्येयानि एकार्थविषयत्वात, एको हि पचतीत्यादिशब्दस्तैाक्रियते तदेवमेष वाक्यार्थी भवति, कतुरेकत्वे एक वचनं तिप कर्तृद्वित्वे द्विवचनं तस् कर्तृबहुवे बहुवचनं झि इति, सेयं कर्तृसं. ख्या ऽऽख्यातवाच्या भवति न कर्तेति कुतस्तस्य वाक्यार्थत्वमलं चानया शा. स्त्रान्तरगर्भया द्राधीयस्या कथया पुरुषस्तावन्न वाक्यार्थः, फलमपि न वाक्यार्थः, सिद्धासिद्धविकल्पानुपपत्तेः सिद्धत्य तावत्फलस्याभिधानमेव नास्ति काम्यमा'नत्वेन निर्देशात् ।
भावनाया वाक्याथेत्वनिरूपणम् - साध्यमानत्वपक्षे तु साक्षात्तत्सिद्धयवेदनात् । व्यापार एष तन्निष्ठस्तहि वाक्यार्थ उच्यताम् ।। अत एव हि वाक्यार्थ भावनां प्रतिजानते । यथोचितफलाढ्यां च त्रयसम्बन्धबन्धुराम् ।।
भावनास्वरूपोपादनम्-- केयं भावना नाम, भाव्यनिष्ठो भावकव्यापारो भावना, भाव्यं हि स्वर्गादि
(१) जैमिनिसूत्रम अ. ३ पा. १ सू. ५ । (२) जैमिनिसूत्रम् अ. ३ पा. १ सू. ६ ।