________________
प्रमाणप्रकरणम्
ति तदपि क्लिष्टकल्पनामात्रम् , प्रीतिहि निरतिशया स्वर्गः प्रीतेश्च नान्यार्थत्वं युक्तं प्रीत्यर्थमन्यन्नान्यार्था प्रीतिः, तस्मान्न यागाय स्वर्गो ऽपि तु स्वर्गाय यागः,
इत्थं च क्रियासाधनानुपदेशान्न कर्तृसमर्पणेन स्वर्गकामपदं समन्वेति, कथं तस्यान्वयः अधिकारिवाचित्वेन ब्रूमः, .. को.ऽयमधिकारी नाम, कर्मणः स्वामीश्वरवचनो ह्यधिकृतशब्दः, ननु क. तव कर्मणः स्वामी नान्यः, मैवम् , स्वामी सन्को न कर्ता सन्स्वामीति, चनु क्रियाकारकसम्बन्धव्यतिरिक्तः कोऽन्यः कर्मणः पुरुषस्य च सम्बन्धः, उच्यते, ममेदं कर्तव्यमहमत्र स्वामीति स्वस्वामिभावमवमत्य पाश्चात्त्यः क्रियाकारक. सम्बन्धो ऽवगम्यते,
ननु त्वया क्रियाकारकसम्बन्धो नापन्हूयते जातिवादिनेव व्यक्तिप्रतीतिः स तु पाश्चात्त्य इत्यत्र किं प्रमाणम् , उक्तमत्र "अनुपादेयविशेषणं विशिष्टस्य पुंसो निर्देशात्" इति, कारकत्वानुगुणविशेषणयोगिनो ह्यस्य कर्तृतया योग्यः सम्बन्धः तद्विपर्यये त्वधिकारित्वेनेति, तस्मादधिकृतस्य कर्तृत्वं न कर्तुरधिकारः इत्थं च स्वर्गकामस्याधिकृतत्वं निर्वहति, यदि हि तत्कर्म स्वार्थ स्यात्स्वर्गों मे भोग्यो भवेत् कथमहं स्वर्ग प्राप्नुयामित्येवं साध्यत्वेन स्वर्गमिच्छन्स्वर्गकाम इत्युच्यते, यदि न स्वर्गसाधनं तत्कर्म तद्विरुद्धमेवेदमा. पतति स्वर्ग कामयते यागं करोतीति हि अन्यदिच्छति अन्यत्करोती. ति स्यात् , अतः कर्मणः काम्यमानसाधनतामप्रतिपद्यमानः स्वर्गकामस्तत्र नैवाधिक्रियते न चानधिक्रियमाणस्तत्र सम्बध्यते तदेवमधिकृतत्वेन स्वर्गका. मस्य कर्मणि सम्बन्धास्वर्गयागयोश्च साध्यसाधनभावावगममन्तरेण तस्याः धिकारनिवाहासम्भवावश्यं क्रियायाः साधनत्वं स्वर्गस्य च साध्यत्वमभ्युप. गन्तव्यमतश्च क्रियायाः फलं प्रति गुणभावान प्राधान्यमप्राधान्याच न वा. क्यार्थत्वम् , तदुक्तम(१) "कर्माण्यपि जैमिनि: फलार्थत्वात्" इति,
का चेयं क्रिया वाक्यार्थ इत्युच्यते य एष यागादिर्भावार्थों धातुवाच्य उत प्रत्ययार्थः कश्चित्तदतिरिक्त इति, तत्र भावार्थस्य काम्यमानसाधनत्वादप्राधान्यमुक्तमेव, प्रत्ययाथी ऽपि काम्यमानभावाशेगतसाध्यसाधनभावापरित्यागेनैव प्रतीयमानो वाक्यार्थतामेति नान्यथेति, स चायं परेषामपि पक्षः तस्मान्न क्रियामात्रपर्यवसायी वाक्यार्थ इति सिद्धम् , ___ फलापेक्षया पुरुषस्य प्राधान्यात्तस्य वाक्यार्थत्वाशङ्कनम्
किमिदानीं फलस्यैव वाक्यार्थत्वं (कियायाः) कथमुत्सृष्टम् ,अप्राधान्यादिति चेत् फले समानं फलमपि पुरुषार्थात्वादप्रधानम् न हि स्वर्गः स्वतन्त्र एव सत्तां (१) जैमिनिसूत्रम् अ. ३ पा. १ सू. ४ ।
३९ न्या०