________________
३०४
न्यायमञ्जर्याम्
का वयं यच्छब्द आह तदेवास्माकं प्रमाणम् , तद्यथा राजपुरुष इति वस्तुवृत्त राजा जगतामोशिता प्रधानम् , पुरुषस्तपस्वी तदिच्छाऽनुवर्तनेन जीवति, शब्दस्तु पुरुषप्राधान्यमाचष्टे उत्तरपदार्थप्रधानत्वात्तत्पुरुषस्येति, एवमिहापि यजेत दद्याज्जुहुयादिति क्रियां प्राधान्येनोपदिशति शब्दःस्वर्गकाम इत्यपि क्रियां प्रति कर्तुरुपदेशो वस्तुवृत्तेन तु कर्मणि क्रियमाणे कर्मस्वाभाव्यं फलं चेद्भवति भवतु तत् , पुरुषो ऽपि प्रयततां नाम फलेन न तु शब्दः फलोपदेशनिष्ठः आह च 'वस्मिंस्तु कृते स्वयमेव तद्भवति' इति, स्वयमेवेति को ऽर्थः न शब्दः फलपारतन्त्र्य क्रियायाः प्रतिपादयतीति ।
तदेतदयुक्तम् एवं वर्ण्यमाने स्वर्गकामो यजेतेति स्वर्गकामपदस्यान्वयो दुरुपपादः,
ननु कर्तृपदमेतत्कर्ता च क्रियार्थों न का क्रियेत्युक्तम् , न कर्तृपदं स्वर्गकाम इति किं त्वधिकारिपदमेतन्न हि जात्यैव कश्चित्स्वर्गकामो नाम कुत्र चित्पुरुषो ऽवगम्यते यो ह्यत्र कर्तृत्वेन नियोज्येत, स्वर्गे कामो यस्यासौ स्वर्गकामः स्वर्ग वा कामयते स्वर्गकामः उभयथा ऽपि स्वर्गकामनाविशिष्टः पुरुष एव तस्मात्पदादवगम्यते, .. तदत्र काम्यमानः स्वर्गः कथं क्रियया सम्बध्येत दृष्टेनादृष्टेन वोपकारेण ।
स्वर्गस्य क्रियायां न दृष्टोपकारकत्वम्यदि हि चन्दनं स्वर्गः षोडशवर्षाः अङ्गनाः स्वर्ग इति चन्दनाङ्गनादि द्रव्यसामानाधिकरण्यप्रयोगाद् द्रव्यशब्दः स्वर्गशब्दः तदा "द्रव्याणां कर्मसं. योगे गुणत्वेनाभिसम्बन्ध"(१) इति दध्यादिवत्साधनत्वेन स्वर्ग उपकरोति क्रियां कामना ऽपि द्रव्याहरणाङ्गत्वादुपकारिणी यत्तया द्रव्यमानेतुं यतते इति दृष्टोपकारित्वम् ,
तच्चैतदसमञ्जसम् , स्वर्गशब्दस्य द्रव्यवाचित्वाभावात्प्रीतिवचनो ह्येष स्वर्गशब्दो न द्रव्यवचनः तदेव चन्दनं शीतातुरेण न स्वर्ग इति ग्रीष्मोपहतेन च स्वर्ग इति व्यपदिश्यते, सैवाङ्गना सुरतार्थिना स्वर्ग इति विरतायां सुरतवृषिन स्वर्ग इत्युच्यते तदेवमेष स्वर्गशब्दः प्रीतिं न व्यभिचरति द्रव्यं तु व्यभिचरत्ये. वमद्रव्यत्वात्स्वर्गस्य न क्रियाङ्गत्वम् , तथा ऽपि निरतिशयसुखप्रतीत्यन्यथानुपपत्तितः परिकल्पितः कनकगिरिशिखरादिर्देशः स्वर्गः सुतरां तस्य न क्रियासाधनत्वमवकल्पते दध्यादिवदुपादातुमशक्यत्वात्,
स्वर्गस्याक्रियायां नादृष्टोपकारकत्वम् - यदप्यदृष्टेनैव द्वारेण समुद्रं मनो ध्यायेदितिवत्स्वर्गकामना तत्रोपकारिणी. (१) जोमिनिसूत्रम् अ. ६ पा. १ स. १ ।