SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ प्रमाणपकरणम् साध्यं च साध्यमानत्वात्प्रधानमवगम्यते । तस्मात्तदेव वाक्याथः क्रियातो नापरं च तत् ।। क्रिया हि प्रतीयमाना स्वनिष्पत्तये साधनान्याक्षिपति तैश्च कैश्चित्संबध्यते लानि च कानि चित्पदान्तरोपात्तानि भवन्ति कानि चिद्वाक्यान्तरोपात्तानि कानि चित्प्रकरणान्तरपाठलभ्यानि कानि चिदारादुपकारकाणि कानि चित्त. निपत्त्योपकारकाणि कानि चिदन्तिकोपनिपतितान्यपि योग्यताविरहात्परिहरति कानि चिदतिदूरवर्तीन्यपि योग्यानि स्वसम्पत्त्यर्थमाहरति इत्येवं दृष्टादृष्योपका. रकारककलापसम्पद्यमानस्वरूपा क्रियैव वाक्यार्थः । यजेत दद्याज्जुहुयादधीयीतेति चोदितः । क्रियां साध्यतया वेत्ति तां च लोको ऽनुतिष्ठति ।। अधिकारिपदमपि क्रियापेक्षितकर्तृसमर्पणेन तदुपयोगितामेवावलम्बते अस्यां क्रियायामेष कर्ता ऽनेनेयं क्रिया सम्पद्यते इति, तत्र च कर्त्ता क्रियासु स्वप्राधान्यमुज्ज्ञति न हि क्रिया का ऽपि तु कर्ता क्रियार्थः, स हि तां निर्वतयन्नुपलभ्यते, शब्दो ऽपि तथैवोपदिशति एष इदं कुर्यादिति, किमर्थं पुनरसौ क्रियामनुतिष्ठतीति चेच्छब्दप्रामाण्यादेवेति बमः, शब्देन हि चोदितस्त्व. येदं कर्तव्यमिति स चेन्नियुक्तो नानुतिष्ठेच चोदनामतिकामेच्छास्त्रप्रत्ययाच क्रियामनुतिष्ठति विरतफलाभिलाषः कर्मसंस्कारादेव परिपककषायः स्तोकस्तो. कप्रपञ्चविलापनद्वारेणोत्तमाधिकारमारूढस्तत एव ज्ञातास्वादस्तमेव परमपुरुपार्थ प्रतिपादयतीति दीर्घा सा कथा तिष्ठतु किमनया, सर्वथा क्रियाप्राधान्यासैव वाक्यार्थ इति, तदुक्तम् “द्रव्यगुणसंस्कारेषु बादरिः(१)" एतदुक्तं भवति द्रव्यादीनामेव क्रियां प्रति शेषत्वमवगम्यते न हि क्रियाया अन्यशेषत्वमिति । क्रियापेक्षया फलस्य प्राधान्येन फलस्य वाक्यार्थत्वनिरूपणम् अत्रोच्यते, कुत इदं क्रियायाः प्राधान्यमुपेयते वस्तुवृत्तेन वा शब्दप्रत्य यमहिम्ना वा फलस्य वस्तुतस्तावत्प्रधान्यमवगम्यते । न सचेताः क्रियां कां चिदनुतिष्ठति निष्फलाम् ॥ वेदाद् गुरुनियोगाद्वा शासनाद्वा महीभुजः । न वैफल्यमपश्यन्तः क्रियां विदधते जनाः जडो माणवको ऽप्येष चपेटापातहानये । मोदकाद्याप्तये वापि करोति गुरुशासनम् ॥ अत्रोच्यते, न वस्तुतः प्राधान्यमिहाश्रीयते अपि तु शब्दतः शब्दप्रमाण(१) जैमिनिसूत्रम् । अ. ३ पा. १ स. ३ ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy