________________
न्यायमञ्जयाम्
ज्ञानस्य वाक्यार्थत्वनिराकरणम्तदिदमनुपपन्नम् , बाह्यार्थस्यानन्तरमेव प्रसाधितत्वात् , न संसर्गनिर्भासं ज्ञानं वाक्यार्थों भवितुमर्हति स्थापयित्वा हि बाह्यमर्थ वाक्यार्थचिन्तामुप. क्रान्तवन्तो वयमतः को ऽवसरो विज्ञानमात्रवाक्यार्थत्ववर्णनस्य, न च पदार्थ. व्यतिरिक्तो नास्ति वाक्यार्थः, इदं तावद्भवान्पृष्ठो व्याचष्टां किं गौरिति पदाद्याशी प्रतिपत्तिस्तादृश्येव गौः शुक्ल आनीयतामिति वाक्यादुत भिन्ने एते प्रतिपत्ती इति, तत्र तुल्यत्वं तावत्प्रतिपत्त्योरनुभवविरुद्धम् , वैलक्षण्ये तु प्रतीत्योर्विषयवैलक्षण्यमपि बलादुपनतमसति विषयभेदे प्रतीतिभेदानुपप. ते, यश्च तदतिरिक्तो विषयः स वाक्यार्थः, एवं केवलगुणक्रियापदोच्चारणे ऽपि योजनीयम् , तदुक्तं “यत्राधिक्यं स वाक्यार्थ" इति, संसर्गोऽपि पदार्थानां न न प्रतीयते, न हि गौरश्वः पुरुषो हस्तीत्यसंसृष्टपदार्थप्रतीतिवद् 'गौः शुक्ल आनीयताम्' इति प्रतीतिः, यथा च संसर्गः प्रतीयते यश्च प्रतीत्युपायस्तत्सर्व विस्तरतो निणेष्यते, तस्माद् बाह्य एव वाक्यार्थः ।
बायोपि भवन्न व्यवच्छेदो वाक्यार्थः विधिरूपत्वेनावगमात्संसर्गमन्तरेण चान्यव्यच्छेदस्यापि दुरुपपादत्वान्न हि शुक्लपदार्थेनासंसृष्टो गोपदार्थः कृष्णादिभ्यो व्यावृत्त इत्यवगम्यते। ___ गोशब्दात्सर्वगवेषु बुद्धिरुपसर्पन्ती पदजनिता शुक्लपदसन्निधानादन्यतः कृष्णादेरपसर्पतीति व्यवच्छेद्यो वाक्यार्थ इति चेन्मैवम् , तत्सम्बन्धावगम पूर्वकत्वात्तदितरव्यावृत्तः, तत्सम्बन्धावबोधन सिद्धे वाक्यस्यार्थवत्त्वे पाश्चात्त्यः कृष्णादिव्यवच्छेदावगमो यदि भवति भवतु कामं न त्वसौ वाक्यार्थ इति ।
प्राधान्याव क्रियाया वाक्यार्थत्वनिरूपणम् --- तदेवं विधिरूपे बाह्ये च शब्दार्थे ऽवस्थिते सति क्रियामेव के विद्वाक्यार्थ वर्णयन्ति, अयं तेषामाशयः
पदार्थाः किल वाक्यार्थभावमायान्ति संहताः ।
अपेक्षाऽनुगुणान्योन्यव्यतिषङ्गविशेषतः ।। न च गुणप्रधानभावमन्तरेण संसर्गः पदार्थानामवकल्पते न चाख्यातर. हितं वाक्यं किं चित्प्रयोगयोग्यम् , अनुच्चारिते तस्मिन्नाकाङ्क्षाया अनिवृत्तः, श्रोत्राकाङ्क्षानिवृत्तये च वाक्यानां लोके प्रयोगः, लोकवञ्च वेदादप्यर्थो ऽवसीयते, अख्याताच पूर्वापरीभूतः साध्यरूपो ऽर्थों ऽवगम्यते न सिद्धरूपः सिद्धसाध्यसमुच्चारणे कस्य किंतन्त्रतेति चिन्तायां साध्यसिद्धये सिद्धमुपात्तमिति प्रतीयते ।