________________
प्रमाणप्रकरणम्
३०१
ऽनवगमान हि गोरिति पदार्थ एव वाक्यार्थी भवति सामस्त्यं तु न तेषामस्ति तद्धि सत्तया भवेत्प्रतीत्या वा, सत्तया न सामस्त्यमशेषपदार्थराशेरस्तीति न नियतः कश्चन वोक्यों ऽवधायते, प्रतीत्या तु सामस्त्यमघटमानमयुगपद्भावित्वेन ज्ञानानामेकपदार्थप्रतीतिसमये पदार्थान्तरप्रतीत्यसम्भवात, पदार्थप्रती. त्युपायाश्च वर्णास्ते ऽपि न युगपद्भाविनः कुतः प्रतीतिकृतं सामस्त्यम् , __ अपि च पदार्थसमुदायः किमतरेतरसंस्पृष्टो वाक्यार्थः अन्यथा वा, न ता. वदन्यथा गौरश्वः पुरुषो हस्तीत्येवमादावदर्शनात , संसगेस्तु दुरुपपादः स ह्यपेक्षा गर्भो भवति न चार्थो ऽर्थान्तरमाकाङ्क्षति अचेतनत्वात, बुद्धीनामपि क्षणिकत्वादन्योन्यं नाकाङ्क्षा न च तस्कृतः सम्बन्धः,
अत एव न संसों वाक्यार्थः न झुलावर्थानां ज्ञानानां वा यथोक्तनीत्या ऽवकल्पते, ___ व्यवच्छेदो ऽप्येवमेव निराकार्यः, सो ऽपि हि न ज्ञानानामुपपद्यते, तदुक्तम्
यदि ध्रियेत गोबुद्धिः शुक्लबुद्धिजनिक्षणे ।
ततो ऽन्येभ्यो निवर्तेत संसृज्येताथ वा तयेति(१)॥ न चापेक्षायां सत्यामपि सम्बन्धः कश्चिदुपलभ्यते, यथोक्तम्--
अपेक्षणे ऽपि सम्बन्धो नैव कश्चित्प्रतीयते । कार्यकारणसंयोगसमवायादिलक्षणः ।।
एकार्थवृत्तिप्रायस्तु सम्बन्धो ऽतिप्रसज्यते (२)। अर्थानां तु क्वचिदपि सन्सम्बन्धः शब्दैरनभिधीयमानत्वादसत्कल्प एव, न चाभेदसंसर्गयोर्वाचकं कि चित्पदमस्ति असति च तद्वाचिनि पदे न तयोः पदार्थत्वम् , अपदार्थस्य च न वाक्यार्थत्वम् , अते ऽपि तद्वाचिनि पदे सुतरामसङ्गतिः गौः शुक्ल आनीयतां संसर्ग इति को ऽर्थः, तस्माद् बाह्यस्य वाक्यार्थस्य सर्वप्रकारमसम्भवात्पदार्थसंसर्गनिर्भासं ज्ञानं वाक्यार्थो भवितुमर्हति, तेनैव च लोके व्यवहार इति ।
(१) श्लोकवार्तिके वाक्याधिकरणे श्लो० २० । गौः शुक्ल इत्यत्र गोशब्द. अनिल बुद्धिः सर्वगवीषु शुक्ल कृष्णादिषु प्रसृता यदि शुक्लशब्दजनिता शुक्लबुद्धि. जननं यावत ध्रियेत स्थिता स्यात् ततस्तया संसृज्येत अन्याभ्यो वश कृष्णादिष्यक्ति. बुद्धिभ्यो व्यवच्छिद्येत न तु सा ध्रियते क्षणिकत्वादित्यर्थः ।
(२) श्लोकवार्तिके वाक्याधिकरणे श्लो० १४ । उपलभ्यमानचौखम्बामुद्रित. पुस्तके एकार्थत्यस्य स्थाने 'एकार्थसमवायेऽपि सर्वेषां व्योम्नि तुल्यता' इति पाठः ।