SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ न्यायमअर्याम् तरक्षादेन न नः प्रयोजनमतिद्राधीयसी सा हि भूरन्यामेव दिशं परीक्षितुमतो ऽस्माभिर्गृहीतः क्षणः । जात्याद्यर्थसमर्थनेन कथिता बाह्यार्थसंस्पर्शिता शब्दानामियतैव नवसरे ऽमुष्मिन् कृतार्था वयम् ।। वाक्यार्थनिरूपणम् - एवं पदार्थे निर्णीते वाक्यार्थश्चिन्त्यते ऽधुना । तत्र विप्रतिपत्तिश्च बहुरूपा विपश्चिताम् ।। वाक्यार्थे विपतिपत्तयःके चिदाचक्षते बाह्यस्य वाक्यार्थस्यासम्भवात् पदार्थसंसर्गनिर्भासं ज्ञानमेव वाक्यार्थ इति, अन्ये वास्तवः पदार्थानां परस्परसंसों बाह्य एव वाक्यार्थ इत्याहुः, अन्यव्यवच्छेदो वाक्यार्थ इत्यपरे, शुक्लादिपदान्तरोच्चारणे कृष्णादिनिवृत्ते. रवगमात्, अपरे सगिरन्ते संसर्गस्य दुरपह्नवत्वात्तस्य च गुणप्रधानभावगर्भवाद्गुणीभूतकारकनिकरनिर्वत्यो प्रधानभूतक्रिया वाक्यार्थ इति, ___ अन्ये मन्यन्ते भाव्यनिष्ठः पुरुषव्यापारः करोत्यर्थों भावनाशब्दवाच्यो वाक्यार्थः , लिङगदिशब्दव्यापारस्तु शब्दभावनाख्यः पुरुषार्थभावनाऽनुष्ठाने प्रवर्तकः स एव विधिरुच्यते, अन्ये त्रुवते द्वयाभिधाने लिङादेः प्रत्ययस्य भारगौरवाद्विधिरेव वाक्यार्थः स एवानुष्ठेयः प्रवर्तकश्चेति, तत्रापि द्वयी विमतिः कैश्चित्प्रेषणात्मकत्वं शब्द. स्याभ्युपगतं लिङादिशब्दैस्तथा तदवगमात्कार्यान्तरानवगमाद्भावार्थमात्रका. यत्वपक्षस्य चातिदौर्बल्याद्विधिरेवानुष्ठेय इत्यर्थात्तस्य कार्यत्वम् , अन्यैस्तु कार्यत्वेन नियोगप्रतीतेरर्थात्तस्य प्रेरकत्वमिति संश्रितम् , कार्यमवगतं स्वसि. द्धये पुरुषं नियुक्ते ममेदं कार्यमित्यवगते हि तत्सिद्धये पुरुषः प्रवर्त्तते इति . अन्ये पुनः अभिनवं वाक्यार्थमुद्योगं नाम वर्णयांबभूवुरित्यनेकशाखा विप्रतिपत्तिः। ___ ज्ञानस्य वाक्यार्थत्वनिरूपणम्तदन्त्र किं तत्त्वमिति अत्रैके तावदाहुः, वाक्याथों नाम पारमार्थिको बहिर्नास्त्येव, स हि पदार्थेभ्यो व्यतिरिक्तो वा स्यादव्यतिरिक्तो वा, न व्यतिरिक्तः भेदानुपलम्भात् , गौः शुक्ला आनीयतामित्यत्र पदग्रामे जातिगुणक्रि. यादिपदार्थ एव वाक्यार्थः प्रत्येकं वा स्यात्सामस्त्येन वा, न प्रत्येकं तथा
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy